________________
परि १ सू. १३] म्यादादरलाकरसहितः ऋकोटसदिकरजरणादिविशेषधोपलम्भरूपसाधकबाधकप्रमाणयोरभावात् अदा स्थास्यमिति निर्गतुमभिलपति तदा पुरुषविशेषानुस्मरमेन पुरुषे समाकृष्यते यदा पुनः पुरुषोऽयमिलि निश्चेतुमिच्छति तदा स्थाणुविशेषानुस्मरणेन स्थाणावाकृष्यत इत्येवमनेकार्थे समाकृष्यमाणस्य प्रतिपत्तुस्नवस्थिवरूपतया दोलायमानः ५ स्थाणुर्वाऽयं स्यात्पुरुषो बेति प्रत्ययः प्रादुर्भवतीत्ययं प्रत्यक्षविषये संशत्रः । परोक्षविषये तु यथा कापि विपिनप्रदेशे शृङ्गमात्रदर्शनात् किं गौरयं स्याद्वयो वेति । जम्बूनिम्बकदम्बादितरुकदम्बकान्तरितपिण्डस्य हि समान्येन शृङ्गमात्रदर्शनानुमितस्य गोत्वमव्यत्वगोचरसाधकबाधकप्रमाणाभावेन संशयविषयत्वात्परोक्षविषयोऽयं संशयः । १९ तथा पिशाचोऽत्रास्ति न वेति गृहे स्थितस्य वाप्यामापः सन्तीत्यादि . च ज्ञानं नित्यपरोक्षपिशाचकदाचित्परोक्षवापीपयःप्रभूतिपदार्थभावाभावलक्षणानेककोरिसंस्पर्शात्संशय एव । ननु गृहे स्थितस्य वाप्यामापः सन्तीति ज्ञानं जलभावरूपमेकमेवांशं स्पृशतीति कथमस्यानेककोटिसंस्पर्शित्वं यतः संशयः स्यादिति चेत् । साधकबाधकप्रमाणा. भावापेक्षयेति बेमः । तथाहि यद्यत्र साधकबाधकप्रमाणे स्यातां तदा निर्णयरूममेवेद्रं भवेत् । तदभावे तु सामर्थ्यादपरोऽपि न सन्तीत्यंशोऽन्तर्निगीर्णः स्फुरतीति सिद्धं संशयत्वसाधकानेककोरिसंस्पर्शित्वम
अत्राह कश्चित्
न संशयो नाम समस्ति वस्तुतः संशयज्ञानमस्वीकुर्वतो मतस्य खण्डन ।
स्फुरत्प्रमाणप्रतिलब्धमूर्तिकः । न लक्षणं वक्तमतोऽस्य युज्यते
__ तुरङ्गशृङ्गं किमु लक्ष्यत क्वचित् ॥१३१॥ तथाहि संशयज्ञाने धर्मी धर्मो वा प्रतिभासते । यदि धर्मी २५ स तर्हि तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः । कथं तर्हि . 'वस्तुनः' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"