________________
१४३
प्रमाणनयतत्वालोकालकारः परि. स. ११ स्यालम्बनत्वायोमान्निविषयमेतज्ज्ञानं प्राप्तमिति । मैवं वादीः । अतीतानागतयोरविद्यमानत्वेऽस्यालम्बनत्वात् । निरालम्बनत्वे ह्यख्यातिरेव स्यात् तत्र चोक्तो दोषः । अतीतानामतस्मादिज्ञानानामविद्यमाना
लिम्बनत्वाविशेषात् भ्रान्ताभ्रान्तसंवेदनविशेषानुपपत्तिरिति चेत् । ५ मैवं संस्थाः । तद्रूपातळ्यवसिवित्वेन तयोस्तयोर्विशेषोपपत्तेः । न हि विद्यमानाविद्यमानार्थालम्बनत्वेन तत्त्वज्ञानेतरविभामः ! कि तईत्रिद्यमानोऽप्यों यथा तथा च तेनैवाविद्यमानाकारण निश्चीयते तदा तद्विअयं तत्वज्ञानमेव । तद्रूपाव्यभिचारात् । यदा पुनर्विपरीतेन सदाका
रेणासन्नर्थो व्यवसीयते । तदा भ्रान्तिरिति । १०. एवं चैव विपर्यस्वख्यातिरूपो विपर्ययः ।
___इत्थं समर्थितोऽस्माभिः परोमालम्भभञ्जनात् ॥ १३० ॥११॥ विपर्ययानन्तरं संशयस्वरूपमुपदर्शयन्नाह--- साधकबाधकप्रमाणाभावादजवस्थितानेककोटिसं.
स्पर्शि ज्ञानं संशय इति ॥ १२॥ १५ साधकबाधकप्रमाणाभावात् । उल्लिल्यमानस्थाणुत्वपुरुषत्वाद्यनेकां
शगोचरयोः साधकबाधकप्रमाणयोरनुपलम्भात् । अनवस्थितानेककोटिसंस्पार्श अनवधारिखनानांशावलस्वि विधौ प्रतिषेधे वा न समर्थमित्यर्थः । ज्ञानमिति बोधविशेषः । किमित्याह संशयः समिति समन्ता
सर्वप्रकारैः शेत इति संशय इति व्युत्पत्तेः ॥ १२ ॥ २० उदाहरममाह---
यथाऽयं स्थाणुर्वा पुरुषो वेति ॥ १३ ॥ अयमत्र भावार्थः । दूरात्प्रत्यक्षगोचरे पुरोवर्जिनि धार्मिणि स्थाणुपुरुषयोरारोहपरिणाहलक्षणस्य साधारणधर्ममात्रस्य दर्शने समानधर्मदर्शनप्रबुद्धसंस्कारतया विशेषस्मरणे च सति स्थाणुत्वपुरुषत्वगोचरयोर्व
"Aho Shrut Gyanam"