SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः विरोधमधिरोहति । अथ मिथ्यैवायमनुभव इत्याभिदधासि । हन्त वक्तव्यं कुत इति । बाभ्यमानत्वादिति चेत् । एवं तर्हि समाधाय स्वान्त विनिमील्य लोचने विमुच्य स्वदर्शनाभिनिवेशवैशसं स्वयमेव विवेचयत्वायुष्मान् किमस्ति बुद्धीनां बाध्यबाधकभावो न वेति । तदेवं बाध्यबाधकभावानुभवस्य बाध्यमानत्वेऽवाध्यमानत्वे ५ वोभयथापि बोधाना बाध्यबाधकभावः सिद्धिसौधमध्यास्त एव । ततः सिद्धमिदम् । संवृतस्वाकारा समुपात्तकलधौताकारा च शुक्तिकैवालम्बनमिति । एवमपरेष्वपि दिनकरकरनिकरनीसवसायगन्धर्वनगरनीरदनिवहग्रहणरजनिजानियुगलावलोकनरज्जु भुजङ्गमावगमकम्बुपीति. मप्रत्ययशर्करातिक्तताप्रतिभासप्रभृतिषु विभ्रमेषु निगृहितनिजाकारं परि- १० गृहीतजलाधाकारं च वस्तु विषयतयावबोद्धव्यम् । अथ स्वप्नदशायां स्तम्बेरमादिप्रत्ययस्य किमालम्बनमिति चेत्, .. तद्देशवर्ती शय्यादिपदार्थ एवेत्येके । तदनुपस्वप्नादिज्ञानानां परोक्तालम्बनं खण्डयित्वा स्वम-पन्नम् । प्रमाणाभावात् । न हि सन्निहितत्वादेव . तेन तदुपपादनमू। ज्ञानस्य विषयः । किन्तर्हि यस्तत्र प्रतिभासते स १५ चोत्तरकालभाविना प्रत्यभिज्ञानेन बाधकेन व्यवस्थाप्यते । न च शय्यादावित्थं प्रत्यभिज्ञानमुन्मज्जति यदुत यदेव गजादिरूपतया पूर्व मया प्रतिपन्नं तदेवेदं शय्यादि नाप्येवं तत्र बाधकमुज्जिहीते नेदं गजादिकं किन्तु शय्यादीति । तस्मान्न तत्र शय्यादिकमालम्बनं किं २०. तर्हि पूर्वोपलब्धोऽनुपलब्धो वा विद्यमानोऽविद्यमानो वा यः प्रतिबुद्धावस्थायां बाधकप्रत्ययेनानुसन्धीयते स खलु देशकालस्वभावान्यत्वेन स्वमज्ञाने प्रतिभासमानस्तस्यालम्बनमित्युच्यते । तथाहि प्रतिबुद्धः सन् कथयति मयाद्य स्वप्ने देशान्तरस्थः पुत्र इह स्थित इति दृष्टः । पिता पुनर्मूतोऽपि जीवतीति दृष्टः । तथाऽन्धोऽनन्ध इत्येवमादि । २० केशकूर्चाकारज्ञानेऽप्यविद्यमानः केशसमूहः सदाकारतया प्रतिभासमानः सन्नालम्बनम् । बाधकोत्पत्तौ तथाऽनुसन्धानात् । ननु चाविद्यमान "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy