________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ११
तावत्तुल्यगोचरयोः । धारावाहिज्ञानेष्वपि बाध्यबाधकभावप्रसक्तेः । नापि पृथग्गोचरयोरथं युज्यते । स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भादिति । अत्राभिधीयते । प्रथमद्वितीयविकल्पौ तावदिहानङ्गीकारेणैव प्रतिहताविति तत्र वाग्विस्तरः केवलं कण्ठशोषार्थमायुष्मतः सम्पन्नः । विषयाप५ हारस्तु बाधः स्वीक्रियते । विषयस्य च न प्रतिपन्नत्वमपहियते किन्तु प्रतिपन्नस्यासत्त्वं ख्याप्यत इत्यपहारार्थः । असत्त्वमपि नेदानीमुपनतमस्य ख्याप्यतेऽपि तु तदैव तदसदिति प्रकाश्यते । ततश्च न पूर्वीपलब्धमुद्गरदलितकलशाभावज्ञान इवात्राप्यबाधा शङ्कनीया । ननु प्रथमज्ञानेन तदानीं कलधौतस्य सत्त्वं गृहीतं बाधकेन तु तदैवासत्त्वं १० ख्याप्यत इति स्वरूपेणैव तस्य सत्त्वमसत्त्वं च परस्परविरुद्धं युगपहूयमापतितमिति । तदसत् । प्राक्प्रतिपन्नाकारोपमर्दद्वारेण बाधकप्रत्ययोत्पत्तेः ः । यन्मया तदा रजतमिति प्रतिपन्नं तद्जतं न भवत्यन्यदेव तद्वस्त्विति । न चेदमाशङ्कनीयम् । स्वकालनियतत्वात् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादकालावच्छिन्नतद्विषयाभावप्रतिपत्तिसामर्थ्य१५ मिति | स्वसामग्रीतस्तथैवात्तरस्य बाधकप्रत्ययस्योत्पद्यमानस्य प्रतीतेः । न च प्रमाणप्रतीतमपि प्रतिनियतकार्यकरणसामर्थ्यं पदार्थानां कदर्थयितुं केनापि शक्यमिति । फलापहारोऽपि बाधः सम्भाव्यत एव । बाधकप्रत्ययोत्पादे सत्युपादानादिबुद्धिरूपस्य प्राचीनज्ञानफलस्य निवर्त्तमानत्वेनानुभूयमानत्वात् । ततः फलापहारात् प्राक्तन संवेदनं बाधितं २० भवत्येव । एवं चोपादानादिसंविदः प्रमाणफलस्योत्पन्नत्वेनानपहरणीयत्वादिति निरस्तम् । यद्पीदमगादि तुल्यगोचरयोर्बाध्यबाधकभावः पृथग्गोचरयोर्वेत्यादि । तस्य तुल्यगोचरयोरेव ज्ञानयोर्बाध्यबाधकभावमभिदध्महे । न चैवं धारावाहिज्ञानेष्वपि तत्प्रसक्तिः । एकस्मिन् धर्मिणि विरुद्धाकारावबोधकयोर्बोधयोर्बाध्यबाधकभावाभ्युपगमात् । न च धारा२५ वाहिज्ञानान्येकत्र विरुद्धाकारावबोधकानीति कथं तेषु बाध्यबाधकभावाभिधानं साधीयः । अनुभूयमानत्वाच्च बाध्यबाधकभावो बुद्धीनां न
६४०
" Aho Shrut Gyanam"