SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ परि. 1 सू. 441 स्याहादरत्नाकरसहितः दालम्बनमन्यच्चकास्तीत्यस्यानझीकरणात् । शुक्तिकाया एवालम्बमत्वेनं सादृश्यवंशाद्रजताकारतया प्रतिमासमानत्वेन च समर्थित त्वात् । यदि चं शुस्तिकावालम्बन नेष्यते तदानीमुत्तरकालं तद्विषयप्रत्यमिज्ञानस्य बाध्यबाधकमायस्य चानुपपत्तिः । तथाहि यत्पूर्व मया रजतत्त्वेन प्रतिपन्न तदेवेर्दै शक्तिशकालमिति प्रत्यभिज्ञान प्रतिप्राणि- ५ प्रसिद्धं प्रकृतकलधौतंधियः कलौतालम्बनर्वे कथमात्मानं लभेतं । नेदै रजतमपि तु शुक्तिकेत्येवमाकारण शुक्तिकाज्ञानेनं बाधा च कथ घटेत । भिन्नगोचरयोः स्तम्मकुम्भोपलम्भयोर्याध्यबाधकामावानुपलब्धेः। अत्राह पर: ___धीमन् करोमि न करोमि करोमि यद्वा १० बोधाना बाध्यबाधकभावी कश्चित्तवापि बत पर्यनुयोगमत्र । नास्तीप्ति पूर्वपक्षस्य र सविस्तरं खण्डनम् । , नों चेत् प्रकुप्यति भवानथवाऽप्यवज्ञा नैव क्षणं गजनिमीलिकया करोति।।१३६। तथा हि कोऽयं बाध्यबाधकभावो नाम बोधानाम् । किं सहानवस्थानम् किमु वध्यधातकभावः किं वा विषयापहारः, उतपित्फला- १५ पहार इति । तत्र च यद्याद्यः पक्षस्तदा सम्यक्प्रत्ययेन मिथ्याप्रत्ययस्येव मिथ्याप्रत्ययेनापि सम्यक्प्रत्ययस्य सहानवस्थानसम्भवादविशेषेगैव बाध्यबाधकभावप्रसक्तिः । द्वितीयपक्षेऽध्ययमेव दोषः । वध्यघातकमावस्यापि द्वयोरपि सम्यमिथ्याप्रत्यययोरविशिष्टत्वात् । नापि तृतीयः पक्षः। विषयस्य प्रतिपन्नत्वेनापहर्तुमशक्यत्वात् । नहि बाधकज्ञानमित्थ- २० मुत्पद्यते यत्प्रतिपन्नं तन्न प्रतिपन्नमिति । नापि फलापहारलक्षणो बाधः । उपादानादिसंविदः प्रमाणफलस्योत्पन्नत्वेनानपंहरणीयत्वात् । नहि यदुत्पन्नं तदनुत्पन्नमित्यभिदधाति बाधकः । ___ किञ्च तुल्यगोचस्योर्बाध्यबाधकभावः पृथग्गोचरयोर्वा भवेत् । न १ गजो नेत्रे निमील्य जलपानादि करोति । नेत्रनिमीलनेन न किंचित्करोमीति भावयति चं तद्वत् । २' च ' इति भ. प. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy