SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १] स्याद्वादरत्नाकरसहितः येषां विमृश्य सततं विविधान् निबन्धान __ शास्त्रं चिकीर्षति तनुप्रतिभोऽपि मादृक् ॥ ८॥ अधिकतरमनीषोल्लासिनस्तुल्यबुद्धे र्मदविषधरदष्टस्वान्तदेहस्य चास्ति ॥ उपकृतिरिह शास्त्रेणामुना नैव किन्तु प्रकृतिसरलचित्तस्याल्पबोधस्य मत्तः ॥ ९ ॥ इह कृतज्ञतामवलम्बमानः शास्त्रकारस्तत्सिद्धिनिबन्धनं परापरगुरुप्रवाहं स्मृत्यौदर्श सङ्क्रमयन्निमं प्रथमतः श्लोकमाह--- रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः। शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥ १-॥ १० तत्र तीर्यते भवाम्भोधिर्भव्यैरनेनेति तीर्थं चतुर्वर्णः श्रमणमसङ्घः र तस्य ईशः स्वामी तीर्थेशः प्रत्यासन्नोपकारिश्लोकस्य वाच्योऽर्थः । ५ स्वादिह श्रीवर्द्धमानस्तम् । स्मृतिं स्मरणमानये प्रापयामि । अपश्चिमतीर्थाधिनाथं श्रीमहावीरमहमिह ग्रन्थारम्भे स्मरामीत्यर्थः । कथंभूतम् । रागोऽभिष्वङ्गात्मा । द्वेषः परसम्पत्त्यसहन- १५ स्वभावस्तौ विशेषेणापुनर्जेयतया जेतुं विक्षेप्तुं शीलं यस्यासौ रागद्वेषविजेता तम् । पुनः कीदृशम् । ज्ञातारमवबोद्धारम् । कस्य । विश्ववस्तुनः कालत्रयवर्तिसामान्यविशेषात्मकपदार्थस्य भूयः किं विशिष्टम्। शनैः शतमन्युभिः पूज्यः कमनीयाशोकाद्यष्टमहाप्रांतिहार्य १ श्रीसिद्धसेनस्य संमतितकदियो ग्रन्थाः। हरिभद्रस्य अनेकान्तजयपताकादयो अन्याः । २ मालिनी । ३ 'स्मृत्यात्मदर्श' इति प. म. पुस्तकयोः पाठः । ४ 'वउविहे संघे पं. त.-१ समणा २ समणीओ ३ सावगा ४ सावियाओ (१ श्रमण: २ श्रमणी ३ श्रावकः ४ श्राविका ) इति स्था. सू. ३६३. ५ पूर्वदिक्स्थम् । अविद्यमानः पश्चिमः पश्चाद्भावी तीर्थकरो यस्येत्यपश्चिमः तमन्तिम तीर्थकरामिति वा । ६ 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहाणि जिनेश्वराणाम् ।' इति । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy