SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १ विरचनेनार्चनीयः शक्रपूज्यस्तम् । पुनरपि कीदृक्षम्, गिरां वाचामीशं यथावस्थितवस्तुगोचरत्वेन तासां प्रयोक्तृत्वान्नायकम् । अनेन च विशेषणचतुष्टयेनामी यथाक्रमं भगवतो मूलातिशयाश्चत्वारः स्मृति मुकुरभूमिकामानीयन्ते । तद्यथा अपायापगमातिशयो ज्ञानातिशयः ५ पूजातिशयो वागतिशयश्चेति । एतेषां चातिशयानामित्थमुपन्यासे तथोत्पत्तिरेव निमित्तम् । तथा हि नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति । न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते । न च शक्रपूजाविरहे भगवांस्तथागिरः प्रयुक्त इति श्लोकस्य वाच्योऽर्थः ॥ प्रतीयमानस्त्वयम् । इह ये किलाविदलितदृढतररागद्वेषद्विषदत्ताश्लोकस्य प्रतीयमानोऽर्थः। शवदुःखावशाः .... शेषदुःखविशेषाः अविदितहेयोपादेयोपेक्षणीय आवदितहयापादयो ताख्यापितजीवन्मृततुल्यभावाः सकललोकस्यापि अनवलोकनीयाः विषयाविसंवादसमुदितपरमानन्दप्रसादितहृदयसहृदयस्पृहणीयशब्दप्रयोगाशक्ताः अथ च परमसुखविज्ञानपूज्यत्वसम्यक्शब्द प्रयोक्तृत्वाभिलाषिणस्तान् प्रति तत्समीहितगुणाधीशस्य भगवतः १५ समाश्रयणीयत्वं वस्त्वमुना श्लोकेन व्यञ्जनव्यापारगोचरतामावेदयतो ग्रन्थकृतोऽस्माभिरेतत्स्मरणशरणप्रपन्नैरिदं शास्त्रमुपदिश्यते । तदहो जना यूयमप्यमुमेवासाधारणगुणाधिकरणं स्मरणकरणेन शरणं प्रपद्यध्वमिति परहितप्रयन्नत्वमुपदेशदानदक्षत्वं च वस्तु भगवत्समाश्रयणाथै परप्रोत्साहनायामुत्साहप्रतीतेर्दयावीररसो भगवद्विषयो रत्याख्यो भावश्च ध्वन्यते । यो हि दुर्जयमप्यान्तरमैरातिनिकर परितः पराकर्तुं प्रवीणस्तस्य बहिरहितसम्भावनैव नाविर्भवतीत्यतिशयोक्तिरैलङ्कारः । अत एव चान्येभ्यो विजयिभ्यो व्यतिरेकावगमाद् व्यतिरेकालङ्कारश्च । २० - १ 'दन्ताशेष' इति भ. म. पुस्तकयोः पाठः । २ परस्परास्थाबन्धात्मिक रतिः स्थायिभावेऽवयं प्रथमो भावः । ३ शत्रुसमुदायम् । ४ विशेषविवक्षय । भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः । काव्यानुशासने अ. ६ । ५ उत्कर्ष. पकर्षहेतोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः । का. अ. ६ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy