________________
परि. १ सू. ११] स्याद्वादरत्नाकरसहितः
१३७ ज्ञानं भवितुमर्हति । अन्यथा सर्वत्र चाक्षुषज्ञानोत्पादप्रसङ्गेन जगतोऽपि तद् ग्राहकं भवेत् । तन्न विपरीतख्यातेः कलधौतमालम्बनम् । नापि शुक्तिका । रजताकारतयोपजायमानत्वात् । न चान्याकारायाः . संवित्तेरन्यदालम्बनं युक्तम् । अतिप्रसक्तेः । यदि चेयं संवित्तिः शुक्तिकालम्बना कथमस्याः भ्रान्तित्वं भवेत् । अथेदमभि- ५ धीयते अन्यदालम्बनमन्यच्च प्रतिभाति । तथा ह्यालम्बनं शुक्तिशकलं कलधौतन्तु प्रतिभासत इति । एतदप्यसाधीयः । यतः शक्तिशकलस्यालम्बनत्वं प्रतिभासमानत्वेन यदि नाभ्युपगम्यते तदा कथं तत्स्यादिति वाच्यम् । सन्निहितत्वेन चेत्, तर्हि तत्सन्निहितस्य विश्वम्भराप्रदेशस्यापि तदालम्बनत्वप्रसक्तिः । तन्न सन्निहितत्वनिबन्धनमालम्ब- १० नत्वम् । किं तर्हि प्रतिभासनिबन्धनम् । एवं च यदेवास्यां प्रतीतौ प्रतिभासते तदेव रजतमालम्बनतयाऽभ्युपगन्तुं युक्तं तच तत्रासदेव । एवं चासतल्यातिरियमायाता न विपरीतख्यातिरिति ।
विपरीतख्यातिमिमां समन्ततो दोषदूषितशरीराम् । अपरख्यातिगुणानामनभिज्ञो यदि परमुपैति ॥ १२७ ॥ १५ किं ब्रूमहेऽस्य निरपत्रपताममूषु
यख्यातिषु प्रतिहतास्वपि पक्षपाती । निःशेषदोषविमुखे स्वधियान्यथार्थ
ख्यातिभ्रमेऽपि परिजल्पति दोषमालाम् ।। १२८ ॥ तथाहि यदुक्तं तस्याः किमालम्बनमित्यादि । तत्र रजतमेवालम्ब- २० नमित्येके । न चैवमसख्यातित्वप्रसक्तिः । देशान्तरादौ कलधौतस्य विद्यमानत्वात्। असलव्यातिपक्षे हि सर्वथाऽप्यसतोऽर्थस्य प्रथनमास्थीयते । अत्र पुनर्देशान्तरादौ विद्यमानस्येत्यनयोर्महद्वैलक्षण्यं लक्ष्यते । ननु तत्राविद्यमानस्य रूप्यस्य नयनासन्निकृष्टस्य कथं प्रतिभानं
१ ‘दोषमालाः' इति भ. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"