________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ११ थमः पक्षः, तथाप्रतीतेरभावात् । वापि रूप्यं क्वापि च रूप्याभावः प्रतीयते न पुनरिदं लौकिकं रूप्यमिदं त्वलौकिकमिति । अथेदं व्याहियते यत्र व्यवहारः प्रवर्तते तल्लौकिकमितरत्त्वलौकिकमिति ।
ननु कोऽयं व्यवहारः सम्मतः शेमुषीशालिनः । यदि ज्ञानाभिधान५ स्वभाव इत्यभिधीयते । स तावन्नास्त्येव । नहीदं लौकिकमिति
कश्चिजानीतेऽभिधत्ते च लौकिकः। अथ रजतार्थक्रियाकरण व्यवहारः स तु प्रस्तुते रजते नास्तीत्यलौकिकं तदुच्यते । हन्तैवमुत्पत्तेरनन्तरं विनष्टः कुम्भोऽप्यलौकिकः स्यात् । स्वसाध्यसलिलाहरणधारणाद्यर्थक्रियाया अकरणात् । तन्नायं लौकिकालौकिकविभागः कथञ्चिद्विचारवर्तनीमनुवर्तत इति । तदेवमेवंविधदोषदूषितां विसूत्रिताशेषपरोक्तयुक्तिकाम् । न कश्चिदप्यत्र विसंस्थुलामिमामलौकिकख्यातिमुरीकरोति ॥ १२४ ॥
ख्यात्युत्तराणि तदिमानि विचारितानि
युक्त्या कथञ्चिदपि नैव घटामटन्ति । तस्मात् भ्रमेषु नियतं विपरीतवस्तु ख्यातिः प्रमाणकलितेह समभ्युपेया ॥ १२५ ।। ..
_ किं किं जल्पस्यन्यथाख्यातिरेव सिद्धान्तभूतविपरीतवस्तुख्यातिमते परो- स्वीकर्तव्या तार्किकैान्तिबोधे । पदर्शितदूषणानां दूरोपता सर्वथैव त्वदाशा निरास: 1
- दोषेप्वेवं जागरूकेषु सत्सु ॥ १२६॥ तथाहि तस्याः किमालम्बनं कलधौतं शुक्तिकाशकलं वा । कलधौतं चेन्नन्वेवमसत्ख्यातिरषा भवेन्न पुनर्विपरीतख्यातिः । असतः कलधौतस्य तत्र प्रतीतेः । अथान्यदेशकालं सदेव तत्तत्र प्रतिभासते ततोऽयमदोषः । तदसमीचीनम् । एवं सतीदं रजतमित्युल्लेखेन ज्ञानानुत्पत्तिप्रसक्तिः । नह्येतद्देशकाले रजते विप्रकृष्टे चाक्षुषं
१' कारणं ' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"