SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः १२९ ऽनुपपत्तेः । तथाहि इयं वासना अवस्तुरूपा वा वस्तुरूपा वा। तत्र यद्यवस्तुस्वरूपा, तदा नमस्तामरसतुल्यायास्तस्याः कथं काञ्चन व्यवस्थां प्रति हेतुभावः सम्भवति । अथ वस्तुस्वरूपा, सापि ज्ञानाकारात्पार्थक्येन स्वरूपमाबिभर्ति अन्यथा वा । प्रथमपक्षे ज्ञानाद्वैतक्षतिः । ज्ञानाकारात्पृथग्भूताया वासनायाः समायातत्वात् । तथा ५ च यथा वासना ज्ञानाकारात्पृथक्स्वरूपाऽपि घटते । तथा कलधौतादिर्बाह्योऽर्थः परमार्थतया यदि भविष्यति तदापि न किञ्चिदनुचितमालोचयामः । अथ न पार्थक्येन स्वरूपमाबिभर्ति । तर्हि ज्ञानाकार एवायमिति ज्ञानाकारमाहात्म्यावहिरिव प्रतिभासत इति तदेव साध्य तदेव च साधनमभिहितं भवेत् । तन्न वासना नाम कदाचन स्वरूप- १० मामुखयन्ती प्रतीयत इति तत्सामर्थ्याज्ञानाकारस्य बाह्यविज्ञानप्रतिभासनमनुपपन्नमिति । किञ्च स्वरूपमात्रसंविदि तन्निष्ठायामाकारधारितायां च प्रसिद्धायां ज्ञानस्यात्मख्यातिः सिद्धिमासादयेत् । न चैते प्रसिद्धे । पुरस्तादनयोः सविस्तरं पराकरिष्यमाणत्वात् । स्वाकारमात्रग्राहित्वे च निखिल- १५ ज्ञानानामिदं भ्रान्तमिदं चाभ्रान्तमिति विवेको बाध्यबाधकभावश्च न स्यात् । तत्र कस्यचिदपि व्यभिचाराभावात् । ज्ञानात्मस्वरूपतया च रजताद्याकारस्य संवेदनेऽहं रजतमित्यन्तर्मुखाकारतयैव रजतसंवित्तिः स्यान्न पुनरिदं रजतमिति बहिर्मुखाकारतया । अनादिवासनावशाहहिनिष्ठत्वेन शुक्तिस्थो रजताद्याकारः प्रतीयत इत्युच्यमाने तु विपरी- २० तख्यातिरेवेयं स्यात् । ज्ञानादमिन्नस्य रजताद्याकारस्यान्यथात्वेनाध्यकसितत्वात् । अपि च स्वाकारमेव रजतादि बहीरूपतया ख्यापयन्ति भ्रान्तय इत्यत्र न प्रमाणमस्ति । अथानुभवः प्रमाणमिति चेत् । नैवं वाच्यम् । विकल्प्यमानस्य तस्यानुपपद्यमानत्वात् । तथा ह्यनुभवः प्रमाणत्वेन प्रतिपाद्यमानः कलधौतप्रत्ययो वा स्याद्वाधकप्रत्ययो वा । तत्र न तावत् २२ कलधौतप्रत्ययः । स हीदन्तया कलधौतस्य न ज्ञानाकारतयापि । अथ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy