________________
१२८
प्रमाणनयतत्त्वालोकालङ्कारः परि १ सू.११ प्रतीयते । येन स्वप्रतिभाससमयानन्तरमेव सर्वथा परिक्षयादुत्तरकालं प्रतिभासस्तस्य न सम्भवेत् । नेदं रजतमित्यादेबर्बाधकस्य च शुक्तिकादिदेशे कलधौतादिवस्तुनिषेधकस्य प्रवर्त्तमानत्वान्न तत्र तस्य विद्यमानत्वं कथञ्चिदास्थां बनातीति । .
तदियं प्रसिद्धवस्तुख्यातिरिह प्रमितिमार्गमकलङ्कम् ।। अनुसरति नैव कथमपि कुलटेव सुनिर्मलं शीलम् ॥११२॥
आत्मख्याति ख्यातिमार्गानभिज्ञाः
श्रद्धावन्तः ख्यापयन्तीह केचित् ॥ आत्मख्यातिमतखण्डनम् ।
तस्यां तावत्तन्मतं युक्तिमार्ग
___ सम्प्रत्येतं दर्शयामस्तथा हि ॥ ११३ ।। शुक्तिशकले कलधौतमिदमिति चकास्ति । तस्य च बाह्यतया प्रतिभानं नोपपत्तिमन्नेदं रजतमिति बाधकेन तद्बाह्यताया बाध्यमानत्वात् । न हि यत्प्रकारतया योऽर्थः प्रतिभासते तत्प्रकारतेव
स्वीकर्तुं समुचिता सताम् । भ्रान्तत्वाभावप्रसक्तेः । ततो ज्ञानात्मन १५ एवायमाकारोऽनादिवासनामाहात्म्यावहिरिव परिस्फुरतीति ।
आत्मख्यातिरियं तस्मादानीता सिद्धिपद्धतिम् ॥ बाह्यस्य भासनाभावाद्भावस्य परमार्थतः ॥ ११४ ॥ उक्तं यद्वक्तव्यं त्वया सखे निखिलमात्मनः ख्यातौ ॥
अनाकर्णय सम्प्रति जैनानामुत्तरसमृद्धिम् ॥ ११५ ॥ तथाहि यत्तावदवादि तस्य च बाह्यतया प्रतिभानं नोपपत्तिमन्नेदं रजतमिति बाधकेन तदाबताया बाध्यमानत्वादित्यादि । तदसुन्दरम् । नेदं रजतमिति बाधकेन न रजतस्य बाह्यता बाध्यते किन्तु विपाणिवीथ्यादौ वर्तमानस्य बाह्यस्यैव सतः शुक्तिकादेशस्थता । यदपि न्यगादि ज्ञानात्मन · एवायमाकारोऽनादिवासनामाहात्म्याहहिरिव परिस्फुरतीति । तदप्यवाच्यम् । वासनाया एव त्वन्मते१ सस्य' इत्यधिक म. पुस्तके ।
२०
"Aho Shrut Gyanam"