________________
परि. १.सू. ११] स्याद्वादरत्नाकरसहितः .
एतदत्र प्रसिद्धार्थख्यातौ यथुक्तिपञ्जरम् ॥
जैनयुक्तिमदाघातस्तस्करोत्येष जर्जरम् ॥ ११० ॥ एवं हि स्वीक्रियमाणे भ्रान्ताभ्रान्तसंवेदनोदन्तसमुच्छेदप्रसक्तिः । न खलु यथावस्थितवस्तुव्यवसायित्वाविशेषेऽपि किञ्चित्संवेदनं भ्रान्तमभ्रान्तं च किञ्चिदिति निर्निमित्ता व्यवस्थितिः कत्तुं युक्ता यौक्ति- ५ कस्य । स्वैरचारित्वप्रसक्तेः ।
तथा चइयं भ्रान्ता सविद्भमविरहिताऽसौ पुनरिति ___ प्रसिद्धाऽऽस्ते तावन्निखिलजनतायां व्यवहृतिः । अयं त्वेतां सम्यकथमिव तपस्वी घटयिता __ यतः सत्यार्थत्वं वदति सकलज्ञानविषयम् !! १११ ॥ यत्पुनरुक्तं यदि नामोत्तरसमयं तद्वस्तु न प्रतिभासते । तथापि यत्समयं प्रतिभासते तदा तावद्विद्यत एवेति । तन्न निरवद्यम् । यतः प्रतिभाससमये कलधौतादेर्वस्तुनो विद्यमानत्वं किं देशान्तरे विपणिवीथ्यादावभिमतं शुक्तिकादिदेशे वा । प्रथमपक्षे विपणिवीथीव्यव- १५ स्थितस्यैव तस्य प्रतिभासः स्यात्तथैव विद्यमानत्वस्वीकरणात् । य
खलु यत्र देशे सत्तामनुभवति तस्य तत्रैव प्रतिभासः सम्भवति । न हि स्तम्भदेशे कुम्भः कदाचिदुपलभ्यते । अथान्यदेशालम्बिनोऽपि कलधौतादेः सामग्रीविशेषमाहात्म्यतः शुक्तिकादेशे प्रतिभासोऽभ्युपगम्यते । हन्त तर्हि समायाता सेयं तपस्विनी विपरीतख्यातिरेव । २० अन्यदेशस्य वस्तुनोऽन्यदेशतया प्रतिभासाऽभ्युपगमात् । ततः: प्रसिद्धार्थख्यातिरिति नाममात्रं विशिप्यते । न च तत्र विवाद कोविदानाम् । अथ शुक्तिकादेशे तस्य विद्यमानत्वमङ्गीक्रियते । तदप्यनुपपन्नम् । तद्देशोपसर्पणे सत्युत्तरकालं तत्प्रतिभासस्थाभावात्। न च तोयबुहृदादेरिव क्षणभङ्गुरत्वं कियत्कालस्थायिनः कलधौतादेः २५
"Aho Shrut Gyanam"