SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ __ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. ११ नाभिधेयम् । चरणाभरणभाजनादितदर्थक्रियाकारित्वाभावात्तस्य भ्रान्तत्वोपपत्तेः । द्विविधा ह्यर्थक्रियाऽर्थमात्रनिबन्धनाऽर्थविशेषनिबन्धना च । तत्राभिलाषादिरूपाऽर्थमात्रनिबन्धना । चरणाभरणभाजनप्रभृतिस्त्वर्थविशेषनिबन्धना । अर्थविशेषनिबन्धनार्थक्रियाकारिण एवार्थस्य ५ व्यवसायकं संवेदनमभ्रान्तमितरत्तु भ्रान्तम् । यच्चोक्तं नेदं रजतमिति बाधकप्रत्ययेन विषयीकृतस्य वस्तुनोऽर्थताया बाध्यमानत्वादिति । तदपि न साधीयः । न हि बाधकप्रत्ययो मिथ्याज्ञानविषयीकृतस्य वस्तुनोऽर्थतां बाधते । किं तर्हि मिथ्यारजतधियः स्वविषयपरित्यागेन विषयान्तरोपसर्पणान्मिथ्यात्वं ख्यापयति । असल्यातिरियं तस्मान्न प्रमाणेन केनचित् । स्वीक्रियते विदग्धेन दुर्भगेव कदाचन ॥ १०७ ।। वावदूकाः प्रसिद्धार्थख्यातिमाहुः परे पुनः । तेषामपि स्फुटाटोपः किञ्चिदेष प्रकटयते ॥ १०८ ॥ तथाहि प्रतीतिसिद्धमेव वस्तु विपर्ययज्ञाने चकास्ति । न चास्य प्रसिद्धार्थख्यातिमत- विचारताऽसहत्वादविद्यमानत्वं वचनीयम् । __खण्डनम् । प्रतीतिं परित्यज्यान्यस्य विचारस्यैवानुपपत्तेः । पाणिपल्लवन्यस्तनिस्तुलस्थूलमुक्ताफलादेरपि यतः प्रतीतिसामयनैव विद्यमानत्वं व्यवन्हियते । सा च प्रतीतिरितरत्रापि न नृपतिशासन. निरुद्धा । न चेदं वाच्यं दूरतः शुक्तिकाशकलादौ कलधौतादेव२० स्तुनः प्रतिभासस्य तद्देशोपसर्पणे सत्युत्तरकालं प्रतिभासस्याभावादविद्यमानत्वमिति । यतो यदि नामोत्तरसमयं तद्वस्तु न प्रतिभासते तथापि यत्समयं प्रतिभासते तदा तावद्विद्यत एव । इतरथा तोयबुहुदादेरपि स्वप्रतिभाससमये सत्त्वसिद्धिर्न भवेत् । तस्मादित्थं प्रसिद्धार्थख्यातिरेषा न मुञ्चति ।। कदाचनापि सन्न्यायं कौमुदाव कलानिधिम् ॥ १०९ ॥ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy