SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परि. १. ११] स्याद्वादरत्नाकरसहितः अख्यातिरियमेवं च पातिता ख्यातिसौधतः ॥ तत्साधनप्रवीणायाः कामं युक्तेः कदर्थनात् ॥ १०३ ॥ १२५ असत्ख्यातिं समाख्यान्ति सुसूक्ष्मप्रेक्षिणः परे ॥ तत्रोपपत्तिमेतां तु खेदयन्ति समुद्धताः ॥ १०४ ॥ ex तथाहीदं रजतमिति प्रतिभासमानं वस्तु ज्ञानमर्थो वा भवेत् । न तावज्ज्ञानम् । अन्तर्मुखाकारतयाऽहं रजतमित्यहङ्कारसामानाधिकरण्येनाप्रतिभासमानत्वात् । असत्ख्यातिमत्तखण्डनम् । इदं रजतमिति बहिर्मुखाकारतया प्रथमानत्वाच । नाप्यर्थः । तत्साध्यार्थक्रियाकारित्वाभावात् । नेदं रजतामिति बाधकप्रत्ययेन वितथज्ञानविषयीकृतस्य वस्तुनोऽर्थताया बाध्यमानत्वाच्च । ततोऽसदेव तत्तत्र १० प्रतिभातमित्यसख्यातिः । एवमसत्ख्यातिरियं स्वयंवरा सुंदरीच तरुणेन || अनुगृह्यतेऽत्र गाढं दृढोपपत्तिप्रपञ्चन ॥ १०५ ॥ इमामसत्ख्यातिमुपैति लम्पटः प्रवक्ति युक्तीर्न तु तत्र निश्चलाः || चिराद्भविष्यन्ति तदन्यधीमतां कपोलपाल्यः स्मितलोचनोत्सुकाः । १०६ । १५ तथा सख्यातिरिति कोऽर्थः । किमेकान्तासतोऽर्थस्य प्रथनमथ देशान्तरे विद्यमानस्य । उत्तरस्मिन्पक्षे विपरीतख्यातिरेवेयम् । देशान्तरे विद्यमानस्य रजतस्य शुक्तिकादेशे प्रतिभासस्वीकारात् । एकान्तासतस्त्वर्थस्य प्रथनं नमोरुहवन्न समर्थयितुं शक्यम् । अपि चासत्सत्त्वेन प्रतिमातीत्यसत्ख्यातिरपि न विपरीत्ख्यातिमतिक्रामति । २० यदपीदं रजतमिति हि प्रतिभासमानं वस्तु ज्ञानमर्थों वेति विकल्प - द्वयमकारि । तत्राद्योऽनभ्युपगमान्निरस्तः । द्वितीयस्त्विष्यत एव । तत्र च यदुक्तं तत्साध्यार्थक्रियाकारित्वाभावादिति । तन्न पेशलम् । अर्थनिबन्धनाभिलाषप्रवृत्त्याद्यर्थक्रियाकारित्वस्य तत्रापि सम्भवात् । कथं तर्ह्यत्रार्थक्रियाकारित्वेऽपि रजतस्य भ्रान्तत्वमभिधीयत इति च २५ " Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy