________________
१२३
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. ११ भ्रान्तिमख्यातिमाचख्युः सङ्ख्याविन्मानिनः परे ।।
प्रकटीकुर्वते तत्र यां युक्तिं सा प्रदर्श्यते ॥ ९९ ॥ तथाहीदं रजतमिति प्रस्तुतज्ञाने रजतसत्ता विषयभूता तावन्नास्ति । भ्रमस्थलेऽख्यातिवादि- अभ्रान्तत्वप्रसक्तः । रजताभावोऽपि न तज्ज्ञान• नां मतस्य सविस्तरं स्यालम्बनम् । रजतविधिपरत्वेन तस्य प्रवर्तनात् ।
खण्डनम् । अत एव शुक्तिखण्डमपि न तदालम्बनं युक्तम् । नापि रजताकारेण शुक्तिखण्डमालम्बनत्वेन प्रतिपादयितुमुचितम् । अन्यस्यान्याकारेण ग्रहणाप्रतीतेः । न खलु स्तम्भाकारेण कुम्भस्य ग्रहणं प्रतीतम् । तस्मान्न किञ्चिदत्र ज्ञाने ख्यातीति ।
तस्मादख्यातिरियं ख्यातिप्रासादशिखरमधिरूढा ॥
सम्प्राप्य युक्तिमेतां सोपानपरम्पराप्रायाम् ।। १०० ।। अनोच्यतेकिमख्यातिप्रतिष्ठायामेवं पर्याकुलाः स्थ भोः ।।
तस्याः प्रतिज्ञामात्रेण सिद्धैवाख्यातिरत्र च ।। १०१ ॥ १५ एवं हि स्वीक्रियमाणे विशेषतो व्यपदेशाभावप्रसक्तिः । यत्र हि
स्वरूपं पररूपं वा न किञ्चिदपि प्रतिभासते तत्केन विशेषेण रजतज्ञानमन्यद्वा व्यपदिश्येत । तथा च ।
वितथविदि यदि त्वं भाषसेऽख्यातिमित्थं ___ रजतमिति विशेषेणाभिधानं कथं स्यात् । तदिह किमभिदध्याः कोविदानां सभाया
मयमनुभववन्ध्यं लज्जते यन्न जल्पन् ॥ १०२ ॥ भ्रान्तिसुप्तावस्थयोरविशेषप्रसङ्गश्च । नहि भ्रान्तेः प्रतिभासमानार्थव्यतिरेकेण सुप्तावस्थातोऽन्योऽस्ति विशेषः । प्रतिभासमानार्थाभ्युपगमे च कथं निरालम्बनत्वेनाऽख्यातिरूपताऽस्याः स्यात् ।
"Aho Shrut Gyanam"