________________
परि. १ सू. ११] स्याद्वादरत्नाकरसहितः रजतादिज्ञानमपि विपर्ययरूपमेषितव्यम् । अथ स्मृतिप्रमोषरूपम्, तदप्यनुचितम् । शास्त्रश्रवणानन्तरभावित्वेन स्मृतिरूपतानुपपतेः । न खलु शास्त्रश्रवणजनितं विज्ञानं स्मरणं युक्तम् । अक्षादिजनितज्ञानस्यापि तथात्वप्रसक्तेः । किञ्च पूर्वमनुभूतमेव पश्चात्स्मर्यते । न चासच्छास्त्रश्रवणादाक्कुदर्शनाभ्युपगतक्षणिकत्वाद्यनुभवः प्रादुर्भूत इति नेदं ५ स्मरणम् । तदभावाच कस्य प्रमोष इति । यदपि जल्पितं प्रस्तुतरजतसंवेदनदृष्टान्तेन समस्तसंवेदनानां निरालम्बनत्वप्रसक्तेरित्यादि । तदपि निरुपयोगम् । प्रस्तुतरजतसंवेदनेऽपि शुक्तिशकलालम्बनत्वस्य सविस्तरमनन्तरमेव समर्थियत्वान्निरालम्बनत्वाप्रसिद्धिरिति कथं तद्दष्टान्तावष्टम्भेन सकलसंवेदनानां निरालम्बनत्वमभिधीयमानं सुधियां १० मनः प्रीणाति । अथ समस्तप्रत्ययानां सालम्बनत्वे स्ववाचैव यथार्थत्वमस्माभिरिव भवद्भिरपि प्रतिपन्नं स्यात्तत्कथं विपरीतख्यातिः सिद्धयतीति मन्यते । तदपि न तथ्यम् । यथार्थत्वेन सह सालम्बनत्वस्यान्यथानुपपत्तेरसिद्धेः । न हीदं रजतमित्यादिज्ञानानि शुक्तिकाघालम्बनान्यपि यथार्थानि सम्भवितुमर्हन्ति । नेदं रजतमित्यादिबाधकप्रत्ययैस्तेषां बाध्यमानत्वस्य प्रतिपादितत्वात् । यत्र तु पाश्चाद्भाविनो बाधप्रत्यया न प्रादुर्भवन्ति तानि ज्ञानानि यथार्थत्वेन व्यवस्थितानीत्यलमतिविस्तरेण ।
एवं तावत्तव किल पुरः पक्षपातानपेक्षं
भेदाख्याति खलु वयमिमां मानतः क्षिप्तवन्तः । भ्रातः प्राभाकर यदि भावनभ्यधादत्र काञ्चित्
युक्तिं शक्तां स्वमतविषये तत्त्वमेव प्रमाणम् ॥ ९७ ।। तस्मात्त्वं चत्तार्किकाणां कदाचित्कर्तुं गोष्ठीमिच्छसि स्वच्छबुद्धे ॥ भेदाख्यातौ दोहदं दोषवत्यां मा कुर्वीथाः सर्वथाऽस्यां तदानीम्॥९८॥
70
१ मन्दाक्रान्ता!
"Aho Shrut Gyanam"