SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ११ अपि च प्रमोषशब्दस्य कोऽर्थोऽभिप्रेतः प्रज्ञाशालिनः । किमेकदेशापहारः सर्वापहारो वा । न तावदेकदेशापहारः, तत्र प्रशब्दप्रयोगस्य निरुपयोगत्वात् । एकदेशेन तस्करैर्द्रविणापहरणे मोषशब्दप्रयोगो लोके निरूढः । ततः सर्वापहार एव प्रमोषशब्दस्यार्थ उपपन्नः । ५ प्रकृष्टो मोषः प्रमोष इति मोषस्य चैष प्रकर्षों यत्सर्वात्मना वस्तुनोऽपहार इति । एवं च स्ववचनव्याघातः स्मृतिरस्ति किन्तु प्रमुष्टेति । यदि हि साऽस्ति कथं प्रमुष्टा । प्रमुष्टा चेत् कथमस्तीति । अथ तिरोभावः स्मृतेः प्रमोषः । सोऽपि ज्ञानयोगपद्ये सिद्धे सति सिद्धयेत् । न च भवतः ततस्तत्सिद्धम् । अपसिद्धान्तप्रसक्तेः । किञ्च स्मृते१० स्तिरोभावः किं कार्याकर्तत्वं स्वादावृतत्वमभिभूतस्वरूपतयाऽवस्थानं वा । आद्यविकल्पे किं हि स्मृतेः कार्यं यदकर्तृत्वात्तिरोभावस्तस्याः स्यात् । परिच्छत्तिश्चेत् । ननु सा तत्रास्त्येव । रजतपरिच्छित्तेरनुभूयमानत्वात् । द्वितीयविकल्पोऽप्यनुपपन्नः । ज्ञानस्यात्रियमाणत्वानुपपत्तेः । चिरस्थायिनो हि पदार्थस्यात्रियमाणत्वं दृष्टम् । न च ज्ञानं चिरस्थायितया त्वया स्वीक्रियते 'क्षणिका हि सा न चिरकालमवतिष्ठते' इति स्वसमयप्रकोपात् । तृतीयविकल्पोऽप्यघटमानः । बलवता हि दुर्बलरूपाभिभवो दृष्टः प्रभाकरेणेव तारानिकरस्य । दुर्बलत्वं च स्मृतेः समतिक्रान्तविषयत्वाद्वाध्यमानत्वाद्वा भवेत् । प्रथमपक्षे क्षय एव स्मृतिवा या भवेत् । सर्वस्याः समतिक्रान्तविषय२० तया दुर्बलत्वतो वर्तमानवस्तुप्रतिभासज्ञानेन स्वरूपाभिभूतिप्रसक्तेः । वाध्यमानत्वं पुनर्विपरीतख्यातिमन्तरेण नोपपद्यत इत्यवोचाम । ततः स्मृतिप्रमोषाग्रहं परित्यज विपरीतख्यातिरेवाभ्युपगन्तुमुचिता । यदि चेयं नाभ्युपगम्यते । तदा यदेतच्छास्त्रश्रवणानन्तरभावि सर्वं क्षणिक मित्यादिज्ञानं तस्य रूपं चिन्तनीयम् । किमिदं विपर्ययरूपमाहोस्वित्स्मृति२५ प्रमोषरूपमिति । तत्र यदि विपर्ययरूपं तदा किमर्द्धरतीयन्यायेन । १ अर्धा जरती अर्धा युवतिस्तदिवेति न्यायस्वरूपम् । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy