________________
१२१
परि. १ सू. ११] स्याद्वादरत्नाकरसहितः. पुनरिदमित्युल्लेखेन पुरोवर्तितया । विपणिवीथीव्यवस्थितस्मर्यमाणरजते शुक्तिसकलस्यारोप्यमाणत्वात् । यत्र यदारोप्यते तद्देशे तस्य प्रतिभासो भवति । यथा मरीचिकायामारोप्यमाणस्य नीरस्य मरीचिकादेशे । स्मृतिविषये रजत आरोप्यते च प्रत्यक्षविषयः शुक्तिशकलमिति । द्वितीयविकल्पे पुनरिदन्तया स्पष्टः प्रतिभासो न प्राप्नोति । तत्रारोप्यमाणस्य स्मृतिविषयस्यास्पष्टत्वात् । तन्न विषयैकत्वाध्यवसायात्स्मृतेः प्रत्यक्षेण सहैकत्वाध्यवसायो युक्तः । नापि स्वरूपैकत्वाध्यवसायात्, स्वरूपैकत्वं हि स्मृतिप्रत्यक्षाभ्यामेवाध्यवसीयेत अन्येन वा । न तावत्स्मृतिप्रत्यक्षाभ्याम्, तयोः स्वसंविदितत्वेन परस्परविविक्तं स्वस्वरूपं वेदयमानयोरेकत्वाध्यवसायस्य विरुद्धत्वात् । नाप्यन्येन १० ज्ञानेन, यतस्तेन तद्वयस्याप्रतीतस्यैकत्वमध्यवसीयते प्रतीतम्य वा । न तावत्प्रतीतस्य, तद्व्यप्रतीतौ तदेकत्वाध्यवसायस्य विरोधात् । नाप्यप्रतीतस्य, अतिप्रसक्तेः । अथ यदैव तवयं ज्ञानान्तरेण प्रतीयते न तदैव तदेकत्वाध्यवसायो येन विरोधः स्यात् । किन्तु पूर्वं तवयं प्रतीत्य पश्चादेकत्वेनाध्यवसीयत इति । तदयुक्तम् । संवेदनस्य क्षणमात्रस्थायित्वा- १५ दियन्तं समयमवस्थानायोगात् । तन्न प्रत्यक्षेण सहैकत्वाध्यवसायः स्मृतेः प्रमोषः । नापि प्रत्यक्षरूपतापत्तिः, तद्रूपतापत्तौ हि तस्याः स्मृतिरूपतापरिक्षयात् प्रत्यक्षरूपतैव स्यान्न स्मृतिरूपता । तत्कथमस्थाः प्रमोषः । अन्यथा मृत्पिण्डस्यापि घटरूपतापत्तौ मृत्पिण्डरूपतापरिक्षयेऽपि मृत्पिण्डत्वप्रसक्तेम॒पिण्डप्रमोषोऽपि स्यात् । अथात्र प्रत्यक्षबाधा, २० साऽन्यत्रापि समाना । अथ तदित्यंशस्याननुभवः स्मृतेः प्रमोषः। तद्रजतमित्याकारा हि प्रतीतिः स्मृतिः, तच्छब्दस्यानुभूतपरोक्षार्थालम्बनत्वात् । स यत्र नानुभूयते तत्र स्मृतिः प्रमुष्टेत्यभिधीयत इति । तदलौकिकम् । एवं हि रजताकारस्याप्यनुभवाभावप्रसक्तेः । तद्रजतमिति हि निरंशमेकमेवेदं स्मरणं भवतेष्यते । तत्र तदित्यस्य प्रमोषे २५ रजतमित्यस्यापि प्रमोषः स्यात् । निरंशस्यैकदेशेन प्रमोषानुपपत्तेः ।
"Aho Shrut Gyanam"