SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२० प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ११ प्रादुर्भूताविदमिति प्रत्यक्षात्पूर्वमुत्तरत्र वा रजतस्मरणमुद्भवेत् । तत्राद्यः पक्षः प्रेक्षाचक्षुषां न लक्षयितुमुचितः । इदमिति प्रत्यक्षात्पूर्वं स्मृतिबीजस्य संस्कारस्य प्रबोधकत्वानिबन्धनात् । प्रबुद्धे च संस्कारे स्मृतिरुत्पद्यते नाप्रबुद्धेऽतिप्रसक्तेः । अथ निर्विकल्पकज्ञानात्तत्संस्कारप्रबोध इप्यते । तदयुक्तम् । निर्विकल्पकज्ञानस्य सविकल्पकज्ञानसिद्धिप्रघदृके विघट्टितत्वात् । अथेदमिति प्रत्यक्षादुत्तरत्र रजतस्मृतिः प्रादुर्भवतीत्यभिमन्यते । तन्न शोभनम् । यस्मादिदमिति प्रत्यक्षात्पश्चात्प्रादुर्भवन्ती रजतस्मृतिविपरीतव्यापारेऽपि चक्षुषि प्रादुर्भवेत् । एवं च सति निमीलितलोचनस्यापि रजतस्मृत्यनुभवः स्यात् । पर्यायेण च भवदभि१० मतज्ञानद्वयस्य प्रादुर्भावः प्रतीतिविरुद्धः । न खलु पुरोवर्तिवस्तु गृहीत्वा पश्चाद्रजतं स्मरामीति रजतं वा स्मृत्वा पुरोवर्तिवस्तु गृह्णामीति शुक्तिग्रहणरजतस्मरणयोः स्वस्वदशायामपि पर्यायेण प्रतीति: समस्ति । रजतात्मकं पुरोवर्तिवस्तु सकृदेव प्रतिभातीति सकललौकि कानां प्रतीतेः । अपि च १५ पृच्छामि किञ्चिद्यदि कोपपाटलं करोषि न श्रोत्रिय भोः स्वमाननम् ॥ तत्त्वं प्रशान्तैः सह येन कोविदैविचार्यमाणं घटनामुपेयते ॥ ९६ ॥ क एष स्मृतेः प्रमोषो नाम, किं प्रध्वंसः, उत प्रत्यक्षेण सहैकत्वाभ्यवसायः, आहोस्वित्प्रत्यक्षरूपतापत्तिः, उतचित्तदित्यंशस्याननुभवः, तिरोभावमानं वा भवेत् । तत्र यदि प्रध्वंसः । तदा साध्यसाधनसम्बन्ध२० स्मृतेः साध्यावसायसमये प्रध्वंसात्तत्रापि स्मृतिप्रमोषः स्यात् । न च भव द्भिरपि तत्रैवं व्यवहारः प्रवर्त्यते । अथ प्रत्यक्षेण सहैकत्वाध्यवसायोऽस्याः प्रमोषः । ननु कुतः स्मृतेः प्रत्यक्षेण सहैकत्वाध्यवसायो विषयैकत्वाध्यवसायात् स्वरूपैकत्वाध्यवसायाद्वा । प्रथमपक्षे क एष विषयैकत्वाध्यवसायो नाम,अन्यतरविषय आरोपश्चेत्, किं प्रत्यक्षविषयस्य स्मृतिविषये तद्विषय२५ स्य वा प्रत्यक्षविषय आरोपः स्यात् । तत्र प्रथमविकल्पे स्मर्यमाणरजत देशे विपणिवीथ्यादौ शुक्तिशकलस्य स्पष्टत्वेन प्रतिभासो भवेत् । न "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy