SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः तिमिरमिवानवगम्यमानमपि विपरीतप्रत्ययमुत्पादयति । कायाश्रितमिव शिरःपीडाज्वरसन्तापप्रमुखमिति । यत्त्वेवं पीतः शङ्ख इत्यादि प्रत्यपादि । तदपि पूर्वोक्तयुक्त्यैव प्रत्यादिष्टम् । यदि नाम प्रसरन्नायनरश्मिसमाश्रितपित्तधातोः पीततां प्रतिपद्यमानः प्रतिपत्ता तिमिरादिदोषकलुषितलोचनतया शङ्खाश्रितं श्वेतिमानं न गृह्णाति मा ग्रहीत् । पीतताप्रतीतिः पुनरस्य कम्बो किंनिबन्धना ! समानाधिकरणतया हि पीतः शङ्ख इति पीतताप्रतीतिः समस्तप्रतिपत्तृणां समुल्लसति । यत्पुनः प्रमातुर्नेत्रकिरणाधिकरणपित्तधातुसम्पृक्तायाः पीततायाः प्रतिभासनमभिधीयते तदतीवानुपपन्नम् । पित्तधातुपीतिमा हि लोचनं निरुन्धानः कज्जलकालिमेव प्रमातुः कथं नाम स्वगोचरं लोच- १० नोद्भवं प्रतिभासनमाविर्भावयितुं समर्थः। अथातिस्वच्छतया कज्जलकालिम्नः सकाशाद्विलक्षणोऽयं पित्तधातुपीतिमेति नयनमनिरुन्धान एव स्वविषयं संवेदनमुत्सादयत्ति प्रतिपत्तुरिति प्रतिपादयेथाः । तदपि न पेशलम् । अतिप्रसक्तेः । स्वच्छतानिमित्तयां हि नेत्रनिरोधितायां विज्ञानोत्पादकत्वेन प्रतिपद्यमानायां नेत्रोपरि परिस्फरन्नीरबिन्दुगोचरं १५ संवेदनमुत्पादयन् केन प्रतिहन्यते । प्रसरन्नयनदीधितिसम्बन्धश्च प्रसारिणोः पित्तपीतिमपयःपृषतोरविशिष्टस्तस्मादतिदूरवदतिसामीप्यस्याप्यदर्शनहेतुत्वादग्रहणमुभयोरपि प्रामाणिकानुकूलमालोकमायः । एवं च । 'पीतशावबोधे च पित्तस्येन्द्रियवर्तिनः ॥ पीतिमा गृह्यते द्रव्यरहितष्विव तिग्मता ॥१॥ शङ्खस्येन्द्रियदोषेण शुक्लिमा नैव गृह्यते ।। केवलं द्रव्यमानं तु प्रथते रूपवर्जितम् ॥ २॥' इत्यादि शालिकोक्तमपास्तम् । अपि चेदं रजतमिति यदिदं संवे दनद्वमयभ्युपगम्यते । तस्य किं योगपद्येन पर्यायेण वा प्रादुर्भावः स्यात् । न तावद्योगपद्येन । स्वकृतान्तप्रकोपप्रसङ्गात् । पर्यायेणापि २५ १ प्रकरणपत्रिकायां नयवीथ्याख्ये चतुर्थप्रकरणे श्लो. ४४, ४९ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy