________________
परि. १ सू. ११] स्याद्वादरत्नाकरसहितः विशदावभासित्वाद्यदित्थं तदित्थं यथा सम्प्रतिपन्नं ज्ञानं तथा चेदं तस्मात्तथा । एवं च यतः काचकामलेत्यादि न दुरुपपाद इत्यन्तं कदर्थितं मन्तव्यम् । किञ्च भवताऽपि संवित्तिः स्वप्रकाशा स्वीक्रियत एव । तत्रेयं रजतसंवित्तिस्तपस्विनी केन स्वभावेन प्रकाशतामिति विभावनीयम् । यदि स्मृतिरूपेणेत्युच्यते, हन्त तर्हि कः प्रमोषशब्द- ५ स्यार्थः । अथानुभवरूपेण प्रथते, तर्हि विपरीतख्यातिरेवेयं समायाता स्मृतेरनुभवत्वेन प्रथनात् । अथ संविन्मात्रतयैव रजतसंवित्तिः प्रतिभाति । तदपि न निरवद्यम् । रजतमिति विषयोल्लेखस्यानुभूयमानत्वात् । स्मरणानुभवलक्षणविशेषशून्यायाश्चात्र प्रघट्टके विषयसंवित्तेरनुपपद्यमानत्वात् । यच्च प्रागप्रतिपन्नो विवेकः १० प्रकाश्यत इत्यादिकमिदमन्यद्रजतमन्यदिति सोऽयं विवेकः प्रकाशितो भवतीति पर्यन्तं बाधकप्रत्ययव्याख्यानं कृतम् । तद्व्याख्यानमात्रमेव । तथाबाधकप्रत्ययस्याननुभूतेः । न ह्येवं बाधकज्ञानमुत्पद्यते यदविविक्तं तद्विविक्तमिति किन्तु पूर्वानुभवविषयीकृतस्य रजतस्य प्रतिषेधमेव बोधयन्नेदं रजतमिति । किञ्च नेदं रजतमिति बाधकज्ञानं १५ यदेवेदं पुरोवर्ति शुक्तिकाशकलं तदेव रजतमिति एतन्न किन्विदमिदं रजतं रजतमित्येवं व्याख्यानयता भवतापि तत्र प्रसक्तस्यैव रजतस्य प्रतिषेधोऽभ्युपेयः । यतो यद्यत्र प्रतिषिध्यते तत्तत्र प्रसक्तमेव यथा क्वचित्प्रदेशे घटः । प्रतिषिध्यते च पुरोवर्तिशुक्तिकाशकले तादात्म्येन रजतमिति विना चानुभवं कुतस्तत्र तत्प्रसक्तिः । यदि च सर्वथाऽननुभू- २० तमप्रसक्तमपि च कलधौतं प्रतिषिध्यते । तर्हि तदिव च चामीकरमपि किमिति न प्रतिषिध्यते । यत्पुनरलीकशौर्यातिरेकमात्मन्यभिमन्यमानेन प्रभाकरेणाभिहितम् । भीरो कि संवृत्तं स्वप्न इत्यादि । तदपि न क्षोदं क्षमते । स्वप्ने हि यदि स्मृतेः स्मृतित्वेन न ग्रहणमिति विवेकाख्यातिरभिधीयते । तर्हि केन रूपेण ग्रहणमिति परामर्श- २५ नीयम् । रूपान्तरेण ग्रहणे विपरीतख्यातिरेवावतिष्ठते । सर्वात्मना
"Aho Shrut Gyanam"