SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११६ . प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू.११ इदं रजतमित्यत्र रजतं चावभासते ।। तदेव तेन वेद्यं स्यानतु शुक्तिरवेदनात् ॥ २ ॥ तेनान्यस्यान्यथाभावः प्रतीत्यैव पराहतः । परस्मिन् भासमाने हि न परं भासते यतः ॥३॥' इति, । ५ तन्निरस्तमवगन्तव्यम् । यच्चावाचि यदि वान्याकारमपि संवेदनमन्यगोचरमित्यादि । तदपि न पेशलम् । एवं हि क्वचित्प्रदेशे कदलाङ्कुरो दावदाहदूषितवेत्रबीजजन्योऽपि न तज्जन्यो भवेत् । अन्यकार्यकारणस्थान्यकारणकार्यकारित्वानुपपत्तेः यदि हि अन्यकार्यकारणमप्यन्यकारणकार्थं कुर्यात्तदाऽस्य कार्य प्रतिनिय१० तताभावतः सर्वत्र कार्येऽविश्रम्भमात्रसम्भवात् क्वचित् कस्यचित् प्रवृत्तिर्न स्यादिति प्रतिनियतकार्यकारणव्यवहारप्रलयप्रसङ्गः । यदपीद। स्मरणमनाकलितरजतस्य प्रतिपत्तुरनुत्पद्यमानत्वादित्याद्यनुमानमवादि । तत्रापि पक्षस्य प्रत्यक्षबाधितत्वम् । प्रकृतरजतसंवेदनस्य विशदावभासितया स्फुटतरं स्मरणाद्भेदेनानुभूयमानत्वात् । अनाकलितरजतस्य प्रतिपत्तुरनुत्पद्यमानत्वादिति हेतोश्च रजतगोचरेण समीहितसाधनतानुमानेन संस्कारेण रजतशब्दोल्लेखिप्रत्यक्षेण वाडनैकान्तिकत्वम् । तथाहि समीहितसाधनमेतद्रजतं रजतजातीयत्वात् सम्प्रतिपन्नरजतवदिति समीहितसाधनतानुमानमनाकलितरजतस्य नोत्पद्यतेऽथ च स्मरणं तन्न भवति । तथा रजतसंस्कारो रजतशब्दोल्लेखि प्रत्यक्षं चागृहीतरजतस्य २० नोत्पद्यते न चैतत् स्मृतिरिति । हेतुस्ततोऽयं न हि साध्यसिद्धिं शक्तो विधातुं व्यभिचारदुष्टः ।। विपक्षपक्षेऽपि निबद्धबुद्धि त्योऽथवा किं प्रभुकार्यशक्तः ॥९॥ यदपि तदंशवैधुर्यादित्यस्मरणसाधनेऽनैकान्तिकत्वमुक्तम् । तदप्यनभ्युपगतोपालम्भमात्रम् । इदं चानुमानं प्रकृतरजतज्ञानस्य स्मरणरू२५ प्रताप्रतिषेधाय बोद्धव्यम् । प्रकृतरजतज्ञानं स्मरणस्वभावं न भवति "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy