SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः केनचिदात्मना । येन च स्वरूपेन बुद्धौ विपरिवर्तते तेनैव वेद्योऽपि स्वरूपान्तरेण तु वेद्यतायां भवेद्विरोधो न चैवमातिष्ठामहे । न हि पुरोवर्तिवस्तु रजततयाऽवभासमानं शुक्तिकात्वेन विषय इति प्रतिजानीमहे । तदेव हि रजतमिति विलोक्य हर्षभयतरलतारचक्षुश्चतुर्दिशमवलोकयन्नुत्सङ्गे गोपयति रजतं तु न भवति । अत एव भ्रान्ति- ५ रिति लौकिकपरीक्षकैर्गीयते । एतेन न प्रतिभातीति द्वितीयपक्षः प्रत्युक्तो वेदितव्यः । पुरोवर्तिवस्तु रजततया प्रतिभात्येव केवलं स्मरणमिति कल्पयित्वा पुरोवर्तिविषयादन्यत्र नेतव्यम् । प्रत्ययत्वादिति हेतुश्चासौ नैकान्तिकोऽप्यन्यथानुपपत्तेरनिश्चितत्वात् । न खलु यथार्थत्वमन्तरेण प्रत्ययत्वं नोपपद्यत इत्येवं प्रमाणमस्ति । एवं चायुक्तमुक्तमतिक्रान्त- १० कलधौतस्य शुक्तिकाशकलतो भेदस्याग्रहणात्तत्र प्रवृत्तिनिमित्तत्वमिति । ततश्च शुक्तिकाशकलस्यैवेदं रजतमिति ज्ञानालम्बनत्वमवबोद्धव्यम् । ततः कथं शुक्तिसकलमेवालम्बनमभिधीयते न हि विभिन्नाकारस्य स्तम्भकुम्भगोचरज्ञानद्वयस्यैक एव विषयः प्रतिपादयितुमुचित इति । तदनुपपन्नम् । यतो नाकारभेदादपि ज्ञानस्य भेदः सङ्गच्छते प्रत्यमि- १५ ज्ञानेन व्यभिचारात् । तद्धयनेकाकाराक्रान्तमप्येकमिति सर्वपरीक्षकसम्प्रतिपन्नम् । एवमिदं रजतमित्यादिविपर्ययज्ञानमप्येकमवसेयम् । तथैव तत्स्वरूपप्रकाशनात् न हि प्रतिभासोपारूढमुभयत्र कञ्चन विशेषमुपलभामहे । एतत्तु प्रतिपद्यामहे यदुतैकं प्रमाणं यथावस्थितवस्तुस्वरूपपरिच्छेदकत्वात् । अन्यत्वप्रमाणं तद्विपर्ययात् । एवं च विवादा- २० पन्नं रजनसंवेदनं रजतगोचरमेव तदाकारत्वादित्यत्र पक्षस्य प्रत्यभिज्ञानादिबाधा सिद्धैव । एतेन चानुमाननिरासेन यदवादि शालिकेन । 'अत्र बेमो य एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि विद्याद्वेद्यस्य लक्षणम् ॥ १॥ १ प्रकरमपलिका यां नयवीय्याख्ये चतुर्थप्रकरणे श्लो. २३, २४, २५. : "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy