________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ११ मालम्बमानाः समर्थितवन्तः । तथा च प्रयोगः । विवादाध्यासितः प्रत्ययो यथार्थः प्रत्ययत्वात्सम्प्रतिपन्नप्रत्ययवदिति । तदवद्यम् । तथाहि किमिदं यथार्थत्वं नाभ सिषाधयिषितम् । किं विषयसमुत्थत्वमात्रं विवादास्पदरजतसमुत्थत्वमबाधितविषयत्वं वा । नाद्य पक्षः । सिद्धसाधनत्वात् । पुरोवर्तिशुक्तिशकलविषयत्वात् तदुत्पत्तेरुपेतत्वात् । नापि द्वितीयो, यतोऽत्र किं रजतज्ञानस्य साक्षाद्रजतसमुत्थत्वं साध्येत परम्परया वा । आद्यपक्षे प्रत्यक्षबाधः । प्रत्यक्षेणैव रजताभावस्य तत्र प्रतीयमानत्वात् । पुरोवर्तिशुक्तिशकलविषयत्वात् । द्वितीये तु सिद्धसाधनम् । पूर्वरजतानुभवजनितसंस्कारप्रबोधप्रभवस्मरणद्वारेण रजतमिदमिति ज्ञानं प्रति रजतस्यापि कारणत्वेनेष्टत्वात् । तृतीये तु प्रत्यक्षबाधः स्फुट एव । नेदं रजतमिति बाधकस्य स्वसंविदितस्य विद्यमानत्वात् । नेदं ज्ञानस्य बाधकं किन्तु व्यवहास्येति चेत् । हन्त कोऽयं व्यवहारो नाम । उपादानमिति चेत् । नन्वेतज्ज्ञानरूपम्,
कायपरिस्पन्दादिरूपं वेति वाच्यम् । आये कल्पे कथं रजतार्थिनस्त. १५ त्रानुपादेथे वस्तुन्युपादेयबुद्धिर्न विपरीतख्यातिः । कथं वा तज्ज्ञान
बाधः सकलज्ञानानां यथार्थत्वाभ्युपगमेन बाध्यत्वासम्भवात् । द्वितीये तु यस्य न परिस्पन्दो न च तथाविधः प्रयत्नो न च शब्दप्रयोगः प्रेक्षावतां तत्प्रत्ययश्च नेदमिति जातस्तत्र तेन किं बाध्यते । न ताव
व्यवहारः । तस्याप्रसक्तत्वात् । नापि विषयः । तस्याप्येवं स्वरूपत्वात् । २० ज्ञानेनासंयत इति चेत् । नन्वेवमेव ब्रुवद्धयोऽस्मभ्यं किमिति कुप्यसि।
नन्वशेषकारणसन्निधाने सति जायमाने विज्ञाने यदेव प्रतिभाति स एव तस्य विषय इष्यते तदत्र रजते प्रतिभासमाने शुक्तिका विषय इति बुद्धिविरुद्धमिति । नैष दोषो विकल्पासहत्वात् । तथाहि
पुरोवर्तिवस्तु प्रतिभाति न वेति भवानेव प्रष्टव्यः । प्रतिभाति चेत्तत्र २५ किमस्माभिस्तदुल्लङ्घनेनान्य एव विषयोऽभिधीयते येन विषयवैष्यम्य
प्रसङ्गः स्यात् । सर्वत्रैव हि साक्षात्कारिविज्ञाने पुरोगतः पदार्थो गोचरः
"Aho Shrut Gyanam"