SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११३ परि. १ सू. ११] स्याद्वादरत्नाकरसहितः .. । वृत्तिनिमित्तमपि भवेद्विशेषाभावात् । तथा चायं रजतज्ञानवान् प्रतिपत्ता पुरोवर्तिनि शक्तिशकललक्षणेऽर्थे सन्देहदोलान्दोलितमतिः किं प्रवर्तत निवर्तेत वा । युगपत्परस्परविरुद्धप्रवृत्तिनिवृत्तिलक्षणक्रियाद्वयं कर्तुमापन्नः किं नाम कुर्वीतेति कष्टां काञ्चिदशामाविष्टोऽसौ तपस्वी । परस्पराभावविरहितत्वेन विषयसंवेदनमिति द्वितीये तु पक्षे त एवं प्रष्टव्याः । ५ किं सर्वथा परस्पराभावविरहिततया रजतत्य शुक्तिशकले प्रतिभासः । किं वा शबलतया । आछे पक्षे तादात्म्यग्रहणप्रसङ्गस्तथा च विपरीतख्यातिः । द्वितीये तु प्रवृत्तिदुरुपपादा । न हि शबलतया वस्तुनि प्रतीते प्रतिनियतरजतार्थिनः प्रवर्तन्त इति । अपि च न तावज्ज्ञानमुपजातभात्रमेव सत्तामात्रेण प्रवृत्तिमुपजनयति किं तहीँच्छाद्वेषजनना- , नन्तरोपजाततदनुरूपप्रयत्नद्वारेण । तौ च प्रयत्नं जनयन्तौ स्वकारणीभूतज्ञानविषय एव जनयतः न हि करकमलचालनेच्छायाः कदाचिदपि शरीरचालनानुरूपः प्रयत्नो जन्यमानो दृष्टः । तदत्र रजतविज्ञानेनापि स्वविषय एवेच्छा तया च प्रयत्नो जन्यः स्वविषय एव न वा कचिदपि इत्यास्थेयम् । तथा च पुरोवर्तिनि रजतज्ञानस्याविषये नेच्छा कारणाभावात् । अत एव न प्रयत्नस्तदभावाञ्च न प्रवृत्तिरिति । इदमिति पुरोवर्तिवस्तुगोचरमपि ज्ञानमस्तीतिचेत् । नैवम् । तस्य हानोपादानयोरनङ्गत्वात् । न हीदमिति कृत्वा प्रवर्तन्ते निवर्तन्ते वाऽपि तु विशेषतो ज्ञात्वाऽनेनार्थक्रियां निष्पादयिष्याम इति हृदि निधाय । इदमिति ज्ञानेनागृहीतभेदं स्वरूपतो रजतज्ञानमेवेच्छां तादृशीं प्रसूत २० इति चेत् । न भेदाग्रहेऽपि स्वरूपानतिवृत्तेः । न हि शालिबीजमगृहीतभेदं कोद्रवबीजात्कोद्रवोचितमङ्कुरमुपजनयति । नापि रत्नं प्रदीपकुमलादगृहीतभेदं स्पृश्यमानं दहतीति । तयं प्रमाणार्थः । विवादाध्यासितं ज्ञानं न स्वविषयमन्तरेणेच्छां जनयति ज्ञानत्वादुमयवादिसिद्धसत्यज्ञानवदिति । स्यादेतत् । सर्वेषां प्रत्ययानां यथार्थत्वं २५ प्रमाणसिद्धम् । तच्चान्यथा न निर्वहतीत्येतावता ग्रहणस्मरणभेद "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy