________________
११२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १ व्यक्तिदर्शने तत्र प्रवृत्तिप्रसक्तेः । चाकचक्यादिसादृश्याभावात्तत्र न प्रवर्तत इति चेत् । न । क्षीरोदकल्पान्तकल्लोलकलितमहिग्नि हिमांशुकिरणधाग्नि तुहिनाचले प्रवृत्तिप्रसङ्गात् । पर्वतत्वविशेषस्तत्र प्रतीत
इति चेत् । न । दूरत्वादिदोषाच्छरदभ्रानुकारिणि तस्मिन्प्रतिभातेऽपि ५ पर्वतत्वाप्रतिभासनात् । सामान्यविशेष इव परिमाणभेदोऽपि व्यावर्तक
स्तन यद्यपि नाम सामान्यविशेषो न प्रतिभातस्तथापि परिमाणविशेषप्रतीतिः केन वार्यत इति चेत् । हन्त परिमाणं सर्वद्रव्यसाधारणं कथमिव व्यावर्तकं भवेत् । जात्या साधारणमप्यवान्तरभेदा
तथा भवतीति चेत् । नन्वनेन न्यायेन कालदेशविशेषोऽपि जात्या १० साधारणोऽप्यवान्तरवर्त्तमानत्वपुरःप्रदेशत्वादिभेदाब्यावर्तकस्तथा च सति
तत्प्रतिभाने भेदोऽपि प्रतिभात इति कुतो भेदाग्रहः । इदमपरमालोच्यतां तादात्म्यप्रतीतिरुपजायमाना क्वचित् किमाकारा कि सामानाधिकरण्येन प्रतीतिराहोस्वित्परस्पराभावविरहितत्वेन विषयसंवेदनम् ।
आये कल्पे विपरीतख्यातिः । इदं रजतमिति समानाधिकरणतयैव १५ प्रतीतेरुत्पादात् । नतु परमार्थतः सामानाधिकरण्यमस्ति प्रकृते किन्तु
भेदाग्रहमात्रेण तथाभिमन्यन्ते प्रतिपत्तारः । तथा चावाचि शालिकेन । 'सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या ।
भेदानध्यवसायादियमपि ताक्यरिस्कुरति ' इति ।
हन्त ‘परमार्थतो व्यधिकरणेऽपि प्रतीती यदि सामानाधि२० करण्येनाभिमन्येते प्रतिपत्तभिस्तदा विपरीतख्यातिरेव तदहो निल
ज्जता अन्यथाख्यातिर्नेष्यते भेदानध्यवसायादियमपि तादृक्परिस्फुरतीत्येतच्चाभिधीयते । अपि च यथा सन्निहितरजतमतितुल्यता विवादास्पदरजतमतेः कथ्यते तथा वर्तमानत्वानवभासितयाऽतीतरजतावभासिज्ञानतुल्यताप्यस्या अस्तीति तुल्यतया पुरुषाप्र
१ प्रकरणपजिकायां नयवीथ्याख्ये चतुर्थप्रकरणे कारिका ४१.
"Aho Shrut Gyanam"