SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ परि १ सू. ११] स्याद्वादरत्नाकरसहितः पक्ष: । अनियतदेशप्रतीत्यभावेन तस्य पराहतत्वात् । द्वितीये तु विपरीतख्यातिर्नियतस्यानियतत्वेनाभासनात् । देशो न स्मर्यते रजतमात्र तु स्मृतमिति कुतो विपरीतख्यातिरिति चेत् । तथापि यत्तावत्तेन पूर्वमवगतं तस्याभाव: स्फुट एवेत्युक्तम् पूर्वावगते हि रजते स्मर्यमाणे केवलाधिकरणोपला व्धरेव तस्याभावोपलम्भः । यद्यपि वणिग्वीथ्यादिगोचराणां रजतानामभावः स्फुटतरस्तथापि शुक्तिकादेशस्थस्य तस्य नावगत इति चेत् । न । शुक्तिकादेशे न रजतं तावदवगतमेव । अनवगतं च न स्मृतिविषयः । अस्मर्यमाणस्य चाभावग्रहोऽपि न प्रवर्त्तकः । प्रवर्त्तकत्वे वा यस्यैव कस्यचिदभावो नावगतस्ततस्तदर्थिनः प्रवृत्तिः स्यादविशेषात् । अथ व्यावर्त्तकधर्माग्रहो भेदाग्रहः । तथा च १० वणिग्वध्यादावेवावगतस्य रजतस्यात्र स्मरणं व्यावर्त्तकास्तु देशकालजात्यादिभेदा न गृह्यन्ते । एवं च सति परस्पराभावो गृह्यतां मा वाग्राहि नास्त्युभयथापि विरोधः । एतदपि न मनोहरम् । स्मर्यमाणवस्तुनि रजतत्वस्यैव व्यावर्त्तकधर्मस्य प्रतिभासनात् । व्यावर्त्तकत्वं च तस्य पुरोवर्त्तिन्यविद्यमानत्वात् । अविद्यमानस्यापि च प्रतिभासे विपरीतख्यातिः । स्यादेतद्यद्यपि गृह्यमाणात् स्मर्यमाणस्य व्यावर्त्तको धर्मोऽवगतस्तथापि गृह्यमाणस्य स्मर्यमाणान्नावगतः । न खल शुक्लत्वादयो धर्मा यावन्तः प्रतिभान्ति शुक्तिकायां तावद्भिः सा व्यावर्त्तयितुं शक्यते । तेषां रजतसाधारणत्वात् । एतदपि नास्ति । देशकालावस्थाशून्यतया स्मर्यमाणाद्रजतात् पुरोवर्त्तिनोऽनुभूयमानस्य २० व्यावर्त्तकानां कालदेशावस्थाविशेषाणां प्रमीयमाणत्वात् । अथैवं मन्येथाः शुक्तिकारजतयोर्यौ परस्परभेदकौ धर्मों तयोः प्रतिभानं निवृत्तिहेतुप्रतिभानं तु प्रवृत्तिहेतुरिति सिद्धम् । न च देशभेदास्तादृशास्तेषां शुक्तिकायामिव रजतेऽपि समानत्वात् । रजतत्वशुक्तिकात्वे पुनस्तादृशी ते च न प्रतिभाते । ततश्च युक्ता प्रवृत्तिरिति । एतदपि नोपपद्यते । रजतं स्मरतो रजतार्थिनः पाषाणत्वसामान्यविशेषानुपलम्भे पाषाण १५ २५ " Aho Shrut Gyanam" १११
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy