SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ११ तथाहि यत्तावदभिहितमिदं रजतमित्यादिविपरीतप्रत्ययोत्पत्तौ न किमपि कारणमालोक्यत इत्यादि । तदा कुलम् । कामलादिदोषदूषितनेत्रादिसामग्र्या एव तत्कारणत्वेनावलोकनात् । यत्पुनरिन्द्रियपक्षे प्रोक्तं ताद्ध रजतसदृशे शुक्तिशकले सम्प्रयुक्तं सत्तत्रेत्यादि । तदनभ्युपगमो५ पालम्भमात्रम् । शुक्तिकाशकलस्यैवेदं रजतमिति ज्ञानगोचरत्वेनाभ्युपगमात् । स्थगितनिजवपुरुपगृहीतरजतरूपा शुक्तिकैव ह्यत्र प्रकाशत इति स्याद्वादिनां मुद्रा । अपि च न कार्यप्रतीतौ कारणाभावाशङ्का युक्तिमती । तथा च प्रामाणिकाः ‘कार्य चेदवगम्येत किं कारणपरीक्षया । कार्य चेन्नावगम्येत किं कारणपरीक्षया' इति । प्रतीयते चात्रेदं रजतमित्याकारैकज्ञानलक्षणं कार्य ततोऽस्यावश्यं कल्पनीयं किञ्चित्कारणम् । तच्च कल्पितमेव दोषकलुषितेन्द्रियादिसामग्रीरूपम् । यदप्यवादि दुष्टं हि कारणमौत्सर्गिककार्यविहितावित्यादि । तदप्यचतुरस्रम् । दावदाहदोषदूषितशक्तीनां वेत्रबीजानां वेत्राङ्कुरविपरीतकदलाकुरलक्षणकार्यकरणकौशलावलोकनात् । । ____ अथ दावदाहस्य वेत्राङ्कुर एव कर्तव्ये दोषता । कदलाङ्कुरे तु गुणभाव एवेत्युच्यते । तत्रापि काचकामलादेः सम्यग्ज्ञाने कर्तव्ये दोषता । मिथ्याज्ञाने पुनः साधुतैवेति सर्वं समानम् । तस्मादौत्सर्गिककार्यकरणे प्रतिहतसामर्थ्याना करणानां विपरीतकार्योत्पादकत्वमुपलभ्यमानं भवताभ्युपगन्तव्यम् । अन्यथा स्वमतव्याघातः । तथाहि रजतमिति स्मरणस्य पूर्वानुभवदेशाबाधितप्रवृत्तिरूपौत्सर्गिककार्यातिक्रमेण शुक्तिकादेशे प्रवृत्तिजनकत्वं भवतैवाङ्गीकृतम् । तच्चैवमुच्यमाने कथं सङ्गच्छेत । भेदाग्रहसहकारिरहितस्य तत्तस्यौत्सर्गिकं कार्य तत्सहचरितस्य त्विदमेव तथेति चेत् । ममापि दोषरहितस्येन्द्रियादेस्तदौत्सर्गिकं कार्य दोषसहितस्य त्विदमेव तथेति समानम् । स्मरणस्य प्रवृत्तिरौत्सर्गिकं कार्यं सा च यत्र क्वचिद्यथा तथा भवतु तथापि न तदतिक्रम इति चेत् । ममायीन्द्रियादेनिमौत्सर्गिकं कार्य तच्च यत्र कचिद्यथा "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy