SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ परि. १ सु. ११] स्याद्वादरत्नाकरसहितः तथा भवतु तथापि न तदतिक्रम इति समः समाधिः । यच्चोक्तं किमिदं दोषविलसितं नामेन्द्रियसामर्थ्यस्य प्रतिस्खलनमित्यादि । तत्र विनाशपक्ष एव कक्षीक्रियते । न तत्र सर्वथा कार्यानुत्पत्तिप्रसक्तिः । शक्त्यन्तरोत्पादस्यातीन्द्रियशक्तिप्रतिष्ठायां वक्ष्यमाणत्वात् । यदपि तत्किं हन्त शुक्तिकायां रजतप्रतिभासः सम्यक्प्रत्यय एवेत्याङ्कय अयि मुग्ध केन कर्णे तब न्यवेशीत्यादिना शुक्तिशकलालम्बनमिति पर्यन्तमुदैर्यत । तत्र विभिन्नकारणजन्यत्वादिभ्यः सामग्र्यन्तर्गतानेककारणभेदात् प्रस्तुतकार्यभेदः सिषाधयिषितः सामग्रीभेदाद्वा । आद्यभेदे दत्तः संवेदनानामैक्याय जलाञ्जलिः । सामग्र्यन्तर्गतैकरूपा लोकलोचनादिभिरनेकैः कारणैरुत्पद्यमानस्य स्तम्भादिसंवेदनस्याप्यनेकत्वप्रसक्तेः । १० नं यमिति तैरनेकान्तः । द्वितीयकल्पे पुनरसिद्धिः सामग्रीभेदस्यात्रासम्भवाचक्षुरादिकारणकदम्बकस्यैव प्रकृतरजतज्ञानकारणत्वादथ इदमिति रजतमिति च प्रत्यक्षः स्मृतिरूपः कार्यभेदो' अत्र सम्भाव्यत एव । तत्र सामग्रीभेदोऽनुमीयत इति मतिः । नेयं सा परस्पराश्रयदोषप्रसक्तेः । सिद्धे हि सामग्रीभेदे इदं रजतमित्यत्र प्रत्यक्षस्मृतिरूपतया कार्यभेद- १५ सिद्धिस्तत्सिद्धौ च सामग्रीभेदसिद्धिरिति । योऽपि भेदसिद्धौ विभिन्नगोचरत्वादिति हेतुरुपन्यस्तः । सोऽप्यसिद्धः । शुक्तिशकलस्यैव प्रस्तुतरजतज्ञानगोचरत्वात् । पुरोवर्तमानं हि शुक्तिशकलं ढोचनादयः काच कामलादिदोषपरिष्वङ्गाद्रजताकारतया दर्शयन्ति । कथमन्यथा शुक्तिसान्निध्यमनपेक्षमाणमेव हि प्रस्तुतरजतज्ञानं नोत्पद्येत । यदप्युक्तम- २० न्याकारस्य संवेदनस्यान्यालम्बनत्वानुपपत्तेस्तदुपपत्तौ वेत्यादि I तदेतद्द्ः शिक्षितयन्त्रबाहकस्नेवास्य स्ववधायोपस्थानम् । एवं वेत्राङ्कुरः हेतुभ्यो वेत्रबीजेभ्यो दावदग्धेभ्योऽपि कथमन्यकारणकार्यः कदलाङ्कुरः समुत्पद्यते । समुत्पत्तौ वा तत एव सकलकार्योत्पत्तेर्वेत्रबीजकरणा १ न चेत्यादि प्रसक्तेरित्यन्तं नास्ति म. प. पुस्तकयोः । तथा द्वितीयपक्षे स्फुटमन्योन्याश्रयः इति म. पुस्तकेऽधिकः पठः । "Aho Shrut Gyanam" १०९
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy