________________
परि. १ सू. ११] स्याद्वादरत्नाकरसहितः
१०७ धातौ तिक्तत्वं परिच्छिन्दानः प्रतिपत्ता मधुरद्रव्यानितं माधुर्यं परिच्छेत्तुं न पारयति । यच्च तिक्तत्वं परिच्छिनति तत्परमार्थतः पित्तधात्व. धिकरणमेव न तु मधुरद्रव्यगतं तत्तु समास्वादयन्नयं प्रमाता दोषवशान्नव विवेत्तुं शक्नोति यथा तिक्तशर्कराप्रत्यये । एवं पीतः शङ्ख इत्यादावपि । तत्र हि विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तधातोः पीति- ५ मानमाकलयन् प्रमाता नयनदोषवशात् कम्बुसमाश्रितं शुक्लत्वमाकलयितुं न शक्नोति । यत्तु पीतिमान परिच्छिनत्ति स परमार्थतः पित्तधातुसमाश्रित एव न तु कम्बुवर्ती दोषवशातु प्रतिपत्ता नेत्थं विभागं क पटीयानिति । एवं च सति सर्वत्र सम्यग्रहणमेव विवेकाख्यातिः सिद्धा भवति । तथा च कोऽपि स प्रत्ययो नास्ति यो विपर्ययाख्या १० लभेत । ये तु विवेकाख्यातेर्द्विषन्तः शुक्तौ रजतप्रतीति ख्यापयन्ति न ते सङ्ख्याविदः । इत्थं हि तेषां बाह्यार्थसिद्धिर्न प्राप्नोति । प्रस्तुतरजतसंवेदनदृष्टान्तेन समस्तसंवेदनानां निरालम्बनत्वप्रसक्तेः । यथैव हि प्राकरणिकं रजतसंवेदनं रजताभावेऽपि रजतं प्रकाशयति तथा सकलानि घटादिबाह्यार्थसंवेदेनानि बाह्यार्थाभावेऽपि तं प्रकाश- १५ विप्यन्तीति ज्ञानाद्वैतवादिमतसिद्धिनिःप्रत्यहा वर्तमाना केन वार्थेत । ततस्तामनिच्छता तत्र विवेकाख्यातिरेव स्वीकर्तव्या ।
विवेकेनाख्यातिस्तदियमधुना सिद्धिसदनं ___ समारूढा प्रौढप्रमितिपृथुनिश्रेणिवशतः । प्रमाणेनोन्मुक्तां पुनरितरथा ख्यातिमपरे
२० प्रकाप्नं जल्पन्तः कथमिह सतां ग्राह्यवचनाः ॥ ९२ ।। क्षित्वेदानी निशितनिशितान्युक्तिबाणानशेषान्
शून्यां मन्ये त्वमसि कृतवान् स्वान्ततूणी स्वकीयाम् । सम्प्रत्यत्रावहिति पदवीं सर्वथारोपय त्वं
श्रीजैनानामयि ऋजुमते तत्प्रतीकारकेलीः १ ९३ ॥ २५
१ पण्डिताः।
"Aho Shrut Gyanam"