________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ स. ११ स्मृतिज्ञानस्य कारणतां प्रतिपद्यत इति रजतशुक्तिकाशकलयोः स्मरणग्रहणयोश्च भेदेनाग्रह्णान्नातीततया रजतप्रतिभास इति । अत एव रजतमिदमिति सामानाधिकरण्यं सत्यसन्निहितरजततुल्यव्यवहारश्च न दुरुपपादः । नन्वेवमख्यातिपक्षे प्रतिज्ञायमाने नेदं रजतमिति बाधकप्रत्ययः पश्चाद्भावी समुपलभ्यमानः कस्य बाधकत्वेन व्यवस्थापयिष्यते सर्वस्यापि संवेदनस्य यथार्थत्वेन भवतामभिमतत्वात् । अयि सरलमते कोऽयमियान् सन्त्रासः । न हि बाधकप्रत्ययेन न रजतमिति किन्तु प्रागप्रतिपन्नो विवेकः प्रकाश्यते नेदं रजतं यदेवेदं पुरोवर्ति शुक्तिका
शकलं तदेव रजतमित्येतन्न किन्त्विदमिदं रजतं रजतम् । एतदुक्तं १० भवति । इदमन्यद्रजतमन्यदिति सोऽयं विवेकः प्रकाशितो भवति ।
अथैवं पर्यनुयुज्यते भवतु स्मरणानुभवयोर्विवेकस्याग्रहणमिदं रजतमित्यादौ । स्वप्ने पुनः कथमिदमुपपादयिष्यते न हि तत्र द्वयमास्ति स्वप्नज्ञानस्यैकत्वात् । भीरो किं संवृत्तं स्वने । इदं रजतमित्यादौ हि
स्मरणानुभवौ न विवेकेनावधार्यते । स्वग्ने तु स्मृतिरेवैका स्मरण१५ रूपतया न ग्रहीतुं शक्यत इति सुव्यक्तमेव स्मृतिस्वरूपस्य स्वप्नस्य
स्वमेऽपि विवेकेनाग्रहणमिति । सदृशदर्शनमन्तरेण स्वप्नदशायां स्मृतिरेव न सम्भवतीति मावमस्थाः । नानाविधनिमित्तप्रभवत्वास्मरणानाम् । निद्रोपद्रुतं एव हि मनः स्वग्ने स्मरणसमुत्पत्ती निमित्ती
भवत्येव । यद्येवं शशधरद्वितयतिक्तशर्करादिसंवेदनेषु स्मृतिप्रमोषः कथं २० कथयिष्यते । आः कुमते न वयं सर्वत्र स्मृतेरेव प्रमोषं मन्यामहे
किन्तु विवेकाख्यातिम् । सा च क्वचित्कथञ्चित्कस्यचिदुपपादयितुं शक्यत एव । तथाहि । कचिदनुभवस्मृत्योविवेकस्याग्रहणं यथेदं रजतमित्यादौ । कचित् स्मरणस्य स्वरूपेणाग्रहणं यथा स्वप्नावस्थायाम् ।
कचित्तु तिमिरादिदोषेण द्विधाकृती नायनी वृत्तिः श्वेतकिरणमैक्येन २५ ग्रहीतुं न शक्नोति यथा द्विचन्द्रप्रत्यये । वापि रसनेन्द्रियसम्पृक्तपित्त
१ एव' इति नास्ति भ. पुस्तके । २ 'स्वप्ने' इति नास्ति भ. म. पुस्तकयो::
"Aho Shrut Gyanam"