________________
परि १ सू० ११]
स्याद्वादरत्नाकरसहितः
मालम्बनम् । रजतमिति तु बोधस्य व्यवहितं हट्टपट्टादिव्यवस्थितं रजतम् । रजताकारं हि संवेदनं रजतगोचरमेव युज्यते न शुक्तिशकलालम्बनम् । अन्याकारस्य संवेदनस्यान्यालम्बनत्वानुपपत्तेः । तदुपपत्तौ च समस्तप्रतिभास: सकलालम्बनः स्यादित्यशेषस्याशेषदर्शित्वप्रसक्तिः । प्रयोगो विवादापन्नं रजतसंवेदनं रजतगोचरमेव तदाकार - त्वात् । यद्यदाकारं संवेदनं तत्तद्गोचरमेव यथा स्तम्भाकारं स्तम्भगोचरमेवेति । यदि चान्याकारमपि संवेदनमन्यगोचरं स्यात्तदाऽस्य स्वार्थव्यभिचारतः सर्वत्राप्यविश्रम्भान्न कस्यापि क्वचन प्रवृत्तिर्निवृत्तिवी कुतश्चिद्भवेदित्यखिलव्यवहारप्रलयप्रसङ्गः । तस्माद्रजताकारसंवेदनं रजतगोचर मेवाङ्गीकर्त्तव्यम् । तदा च तत्र न रजतं पुरतः १० स्थितं समस्तीत्यतीतमेव तत्स्मर्यत इति पारिशेष्यात्प्रसिद्धम् । तथाहि । न तावद्राजतनयनसम्प्रयोगसमुपजातमेव तद्रजतज्ञानमिति साम्प्रतम् । अतिविप्रकृष्टविषये सन्निकर्षासम्भवादिन्द्रियाणाम् । असति च लिङ्गाछुपलम्भे जायमानस्यास्यानुमानादिभावो न शङ्कितुमपि शक्यः । ततः परिशेषतः स्मरणमेवैतदाश्रयणीयम् । अपि चेदं स्मरणमनाकलितरजतस्य १५ प्रतिपत्तुरनुत्पद्यमानत्वात् । यदित्थं ततथा यथोभयवाद्यविवादास्पदरजतस्मरणम् । न चेदं वाच्यं न स्मरणमिदं तदंशवैधुर्यात्सम्प्रतिपन्नग्रहणवदिति । इह भूतले घटो नास्तीत्यनुल्लिखिततदंशस्यापि स्मरणस्य स्वीकरणात् । भूयसां च पदपदार्थस्मरणानामनुल्लिखिततदंशानामेवोपलम्भात् । अथेदं प्रेर्यते यद्यतीतं रजतमत्र स्मर्यते तदा - २० स्वातीततया प्रतिभासः स्यान्न चासावस्ति । एतदपि सुकुमारशेमुषीविलसितम् । यतः काचकामलप्रमुखकरणे द्भवदोषसमूह माहात्म्यावर्तमानस्य शुक्तिश कललक्षणार्थस्य ग्राहकं ज्ञानं शुक्तिलक्षणमर्थं शुक्तिकेयमिति स्वस्वरूपेण प्रतिपत्तुमसमर्थं शुक्तित्वलक्षणासाधारणधर्मस्य रजताच्छुक्तेर्भेदकस्यानेनाग्रहणात् चाकचक्यादिसाधारणधर्मात्मना २५ तु रजतान्वयिना पुरस्थितं वस्तु रजतादगृहीतभेदं प्रतिपद्यमानं रजत
"Aho Shrut Gyanam"
१०५