SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ११ तथाहि । ते प्राहुः । इदं रजतमित्यादिविपरीतप्रत्ययोत्पत्तौ न भ्रमस्थले विवेकाख्यातिं किमपि कारणमालोक्यते । तदुत्पत्तौ हि स्वीकुर्वतां प्रभाकरमता- कारणमिन्द्रियमन्यद्वा भवेत् । न तावदन्यत् । नुयायिनां सविस्तरं निवृत्तेन्द्रियव्यापारस्यापि तथाविधबोधोत्पत्तिखण्डनम् । ५ प्रसक्तेः । नापीन्द्रियम् । तद्धि रजतसदृशे शक्तिशकले सम्प्रयुक्तं सत्तत्र निर्विकल्पकमुपजनयत्सविकल्पकमपि तत्रैवोपजनयेन रजते । रजतस्येन्द्रियेण सम्प्रयोगात्तत्रावर्त्तमानत्वाच्च । न चाऽसपृक्तमवर्तमानं चेन्द्रियपरिच्छेद्यम् 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना' इत्यभिधानात् । अन्यथा व्यवहितसमस्तवस्तूनामपि तत्परिच्छेद्यत्वप्रसक्तितोऽ१० यत्ननिष्पन्नं सर्वस्यापि सर्वज्ञत्वं भवेत् । यदि चेन्द्रियं विपरीतप्रत्ययमुत्पादयति तर्हि सर्वदैव किमिति नोत्पादयति । न च दोषाणां सकलमपीदं विलसितमिति जल्पनीयम् । दुष्टं हि कारणमौत्सर्गिककार्यविहितौ प्रतिहतसामर्थ्यं सम्पन्नमिति तदेवमाजीजनत् । कुतः पुनविपरीत कार्य विहितये प्रवर्त्तितुमुत्सहते । न हि कलमबीजं तैल कलुषितमपि १५ कदलाकरकरण कौशलमवलम्बते । किञ्च किमिदं दोषविलसितं नाम । इन्द्रियसामर्थ्यस्य प्रतिस्खलनं विनाशो वा । पक्षद्वयमप्यनुपपन्नम् । इन्द्रियसामर्थ्यस्य प्रतिस्खलने विनाशे वा सर्वथा कार्यानुत्पत्तिप्रसक्तेः । न खलु मणिमन्त्रादिना ज्वलनसामर्थ्यस्य प्रतिस्खलने विनाशे वा स्फोटादिकार्योत्पत्तिः समुपलब्धा । तस्मात्कारणाभावान्नायं विपरीतप्रत्ययः २० सङ्गच्छते । तत्किं हन्त शुक्तिकायां रजतप्रतिभासः सम्यक्प्रत्यय एव । अयि मुग्ध केन कर्णे तव न्यवेशि शुक्तिकायां रजतप्रतिभास इति । इदं रजतमिति हि ग्रहणस्मरणरूपं सम्यक्प्रत्ययद्वयम् । विभिन्नकारणजन्यत्वाद्विन्नगोचरत्वाच्च । इन्द्रियं हीदमंशोल्लेखवतोऽध्यक्षस्य कारणम् । साधारणभास्वररूपदर्शनप्रतिबाध्यमानः संस्कारश्च रजत२५ मिति स्मरणस्य । तथा इदमिति बोधस्य पुरोवर्त्तिशुक्तिकाशकल । १ मी. लो. वा. सू. ४ प्रत्यक्षसूत्रे श्लो. ८४. १०४ "Aho Shrut Gyanam".
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy