________________
तृतीयः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते
॥४१॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिन
चरितम् ।
द्विजाय अर्घवस्त्रदानम् ।
ततश्च त्रिजगन्नाथः सोदयं नन्दिवर्धनम् । आपप्रच्छेऽन्यतो गन्तुं ज्ञातवंश्यान् परानपि ॥१॥ चारित्ररथमारुढं विहारप्रस्थितं प्रभुम् । वृद्धः पितृसुहृद्विप्रः सोमो नत्वेत्यभाषत ।।२।। स्वामिन् ! संवत्सरदानमदाः स्वान्यानपेक्षया । अदरिद्रं जगज्जज्ञे विना मां मन्दभाग्यकम् ।। ३ ।। अहं हि जन्मतो नाथ ! महादारिद्रयविद्रुतः । परान् प्रार्थयितुं ग्रामाद् ग्रामं भ्राम्याम्यहर्निशम् ।। ४ ।। सहे निर्भर्त्सनं क्वापि ग्रीवायां ग्रहणं क्वचित् । क्वचिदप्युत्तरादानं मुखमोटनकं क्वचित् ।। ५ ॥ धनाशया तदाप्युच्चैर्बहिर्भमत एव मे । अजानतो वात्सरिकं त्वद्दानं निष्फलं गतम् ॥ ६ ॥ संप्रत्यपि कृपां कुर्वन् जगन्नाथ ! प्रयच्छ मे । निर्भय॑ प्रेषितः पल्या स्वामिन्नस्मि त्वदन्तिके ॥७॥ स्वाम्यप्युवाच कारुण्यात्त्यक्तसंगोऽस्मि संप्रति । तथाप्यंसस्थितस्यास्य वाससोऽधं गृहाण भोः ! ॥८॥ सोऽपि वासोऽर्धमादाय हृष्टो निजगृहं ययौ । दशाबन्धकृते तुन्नवायस्यादर्शयच्च तत् ॥९॥ १°इतश्च ।
॥४१॥