SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥३१॥ इति स्तुत्वा गृहीत्वेशं मातुः पार्श्वे निधाय च । संहृत्य तत्प्रतिच्छंदमवस्वापनिकामपि ॥ ८८ ॥ निधायोच्छीर्षके क्षौमं कुंडले चोपरि प्रभोः । श्रीदामगंडकं शक्रः कृत्वा चागात्स्वमाश्रयम् ॥। ८९ ।। ॥ युग्मम् । तदेन्द्रादिष्टधनदप्रेरिता जृम्भकामराः । ववृषुः स्वर्णमाणिक्यवसुधारा नृपौकसि ।। ९० ।। काराभ्योऽमोचयज्जन्तून् सूनोर्जन्मोत्सवे नृपः । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि ।। ९१ ।। तृतीये दिवसे सूनोश्चंद्रमार्तंडबिंबयोः । दर्शनं पितरौ प्रीतौ कारयामासतुः स्वयम् ॥ ९२ ॥ षष्ठेऽहन्यविधवाभिः कलमंगलगीतिभिः । सकुंकुमांगरागाभिरनल्पाकल्पचारुभिः ।। ९३ ।। कंठालंबितमाल्याभिः कुलस्त्रीभिरनेकशः । राजा राज्ञी चाकृषातां रात्रिजागरणोत्सवम् ।। ९४ ।। ॥ युग्मम् ॥ सिद्धार्थत्रिशलादेव्यौ प्राप्त एकादशे दिने । निवर्तयामासतुश्च जातकर्ममहोत्सवम् ।। ९५ ।। दिने तु द्वादशे राजा सिद्धार्थः सिद्धवांछितः । आजूहवत्समस्तान्स्वाञ्ज्ञातिसंबन्धिबान्धवान् ।। ९६ ।। 'मंगलोपायनकरान् सच्चक्रे तान्महीपतिः । यथोचितप्रतिदानव्यवहारपरो हि सः ॥ ९७ ॥ सिद्धार्थस्तानुवाचैवं गर्भस्थेऽस्मिन् सुते मम । गृहे पुरे मंडले च व्यवर्धिष्ट धनादिकम् ।। ९८ ।। १ मांगल्यो"। दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । सिद्धार्थ नृपतिकृत उत्सवः । ॥३१॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy