________________
पृष्ठ क्र. ७३ ७८
॥३३॥
सुभाषितम् । महान्तः क्व न वत्सलाः ? शुभध्यानं हि कामधुक् । क्वेदृशां (पापानां) देवदर्शनम् । वाचंयमा हि बधिरा इव । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशकितै । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः । आकंठमात्राहारो यदाचामेऽप्यलसायते । स्वौजःफलं हि गृह्णान्ति संसारसुखगृध्नवः । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियं । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः । अज्ञा हि पशुवज्जनाः । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छंन ऋजु भवेत् । अत्यन्तघृष्टाद्दहनश्चन्दनादपि जायते । पुंसां समानशीलानां सद्यो भवति सौहृदम् । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः । कुलाचलश्चलति किं गजैः परिणतैरपि । नाऽकृत्यान्तो दुरात्मनाम् ।
१०१
१०३
॥३३॥
१०६ १०६