________________
पृष्ठ क्र.
२५
॥३२॥
दशमपर्वान्तर्गतानि सुभाषितानि ।
सुभाषितम् । प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि । परिग्रहो हि दारादेर्भवभ्रमणकारणम् । राज्ञां हि वचसाऽर्थः स्यान्मनसा धुसदामिव । रम्या स्यादर्धकथिता कथा । धिक् प्रतिष्ठाच्युतं नरम् । पूज्यः सर्वत्र पूज्यते । स्वदर्यामेव शौर्य हि गोमायोर्न पुनर्बहि । सुवर्णेनापि किं तेन कर्णच्छेदो भवेधतः । ही विपाकः कुकर्मणाम् । क्रोधस्तीव्रानुबन्धो हि सह याति भवान्तरे । महानपि मरुमेरुं किं कम्पयितुमीश्वरः ? परेषामुपकाराय महतां हि प्रवृत्तयः । वैरं हि ऋणवत्पुंसां जन्मान्तरशतानुगम् । स्नेहे ह्यद्वैतमानिता। सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते ।
| १०
११ १२
४॥ १४
॥३२॥