________________
दशमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥६५॥
सर्गः
श्रीमहावीरजिनचरितम् ।
दिष्ट्यैष गोचरे दृष्ट्यो वैरं स्वं साधयाम्यहम् । वैरं हि ऋणवत्पुंसां जन्मान्तरशतानगम् ।। २९८ ।। आसन्नमप्यवसानं मम खेदाय नाधुना । प्राग्वैरसाधनादद्य कृतार्थीकृतजन्मनः ।। २९९ ॥ एवं विचिन्त्य सामर्षः सुदाढो विकटेक्षणः । एत्योपवीरं व्योमस्थश्चक्रे किलकिलारवम् ॥३०० ॥ अरे रे ! कुत्र यासीति विब्रुवन् विचकार सः । संवर्तकमहावातं संवर्तानिलभीषणम् ॥ ३०१ ॥ निपेतुस्तरवस्तेन पर्वताश्च चकम्पिरे । गांगमुच्छलति स्मोच्चैर्जलमभ्रंलिहोर्मिकम् ।।३०२ ।। सा च गांगैस्तरंगैौः समुत्पातिनिपातिभिः । उदच्यते न्यच्यते स्म द्विरदोपात्तरुपवत् ।। ३०३ ॥ निर्भग्नः कूपकस्तम्भः शीर्णः सितपटोऽपि च । आत्मेव नावो मुढोऽभूत् कर्णधारो भयातुरः ॥३०४ ॥
आरेभे देवताः स्मर्तुं मर्तुकामः समाकुलः । यमजिह्वाग्रवर्तीव नौवर्ती सकलो जनः ॥ ३०५ ॥ इतश्च मथुरापुर्यां जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता ॥ ३०६ ।। प्रत्याख्यातां धार्मिकौ तौ चतुष्पदपरिग्रहम् । दध्यादिकं चिक्रियतुश्चाभीरीपार्श्वतोऽन्वहम् ॥३०७ ।। आभीरी काचिदन्येधुरानिन्ये प्रवरं दधि । क्रीत्वा च साधुदासीति तामुवाच प्रसन्नवाक् ।। ३०८ ।। त्वया नान्यत्र नेतव्यं दुग्धदध्यादिकं निजम् । अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् ।। ३०९ ॥ १"चरा दृष्ट्याः स्व वर । २ च । ३ तादत्युवाच । तामत्युवाच ।
सुदाढासुरकृत उपसर्गः ।
॥६५॥