________________ त्रिषष्टिशलाकापुरुषचरिते ||374 // आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः पांडोः सुताः विदधिरेऽनशनं च तत्र / उत्केवलाः शिवमगुर्दुपदात्मजा तु सा ब्रह्मलोकमगमत्परमर्द्धिधाम / / 127 / / द्वाविंशोऽर्हन्नथ च नवमः शाह्मभृत्सीरपाणिस्तद्वैरी चेत्यतुलमहसः कीर्तिताः पर्वणीह / चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषामेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् / / 128 // अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् / / इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमपर्वणि बलदेवस्वर्गगमननेमिनिर्वाणपांडवनिर्वाणवर्णनो नाम द्वादश सर्गः / पाण्डवानां निर्वाणं, द्रौपद्या स्वर्ग गमनं च। * * * * * ece // 374 / / अष्टमं पर्व समाप्तम् / /