________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
282828282828282828282828282
विद्याधरेन्द्रमापृच्छय प्रजापतिनृपोऽपि हि । जगाम स्वाश्रयं वेलानिवृत्त इव वारिधि :॥४७८ ॥ भोज्या-ऽङ्गराग-नेपथ्यप्रभृति प्राभृतं ततः । विद्याधरनरेन्द्राय प्रजिघाय प्रजापतिः ॥ ४७९ ॥ विवाहार्थमकार्येतामुभाभ्यां रत्नशालिनौ । मण्डपौ चमर-बल्योः सभे इव शुभाकृती ॥ ४८०॥ द्वयोरपि गृहेऽभूवन् धवलामङ्गलानि च । जरत्कुलस्त्रीरचितशिक्षाचार्यकलीलया ॥ ४८१॥ चान्दनेनाङ्गरागेण भ्राजमानः सुगन्धिना। नीलरत्नप्रतिमेव करीन्द्रमधिरूढवान् ॥४८२ ॥ आवृतोऽनुवरीभूय सवयोभिर्नृपात्मजैः । ययौ त्रिपृष्ठो ज्वलनजटिवेश्म स्ववेश्मतः ॥ ४८३ ॥ वेश्माने तोरणस्याधस्तस्थावथ बलानुजः । पौरस्त्य इव मार्तण्डः प्रतीच्छन्नर्धमण्डलम् ॥ ४८४ ॥ मङ्गलानि कुलस्त्रीषु गायन्तीषु ततो हरिः । भग्नाग्निसम्पुटः सानुवरो मातृगृहं ययौ ॥ ४८५ ॥ सदशश्वेतवसनां नयनानन्दनां हरिः । शशिप्रभामिव मूर्ती तत्रापश्यत् स्वयम्प्रभाम् ॥ ४८६ ॥ उभावथाऽऽसाञ्चक्राते एकस्मिन्नासने शुभे । स्वयम्प्रभा त्रिपृष्ठश्च चित्राचन्द्रमसाविव ॥ ४८७॥ झल्लरीवाद्यनादेन लग्ने संसूचिते तयोः । योजयामास हस्ताब्जे पुरोधाः सम्पुटाविव ॥ ४८८ ॥ दृक्तारामेलकस्ताभ्यामुभाभ्यां च व्यधीयत । नवोद्गमप्रेमतरोः सेचनोदकसन्निभः ॥ ४८९ ॥ स्वयम्प्रभा त्रिपृष्ठश्च तथैव मिलितौ ततः । उपेयतुर्वेदिमध्यं वल्ली-विटपिनाविव ॥ ४९० ॥ समिद्भिः पिप्पलादीनामन्तर्वेदि द्विजातयः । ज्वलनं ज्वालयामासुर्हविराहुतिपूर्वकम् ॥ ४९१॥
१ प्रेषयामास । २'कृ' धातो: प्रेरणायां ह्यस्तनी-अन्यपुरुषद्विवचनम् । ३'धवला' भाषायाम् - धोल इति प्रसिद्धम् । ४ शिक्षकगुरूलीलया वृद्धस्त्रीभिः निर्मितानि ।आइतो सङध.॥५ अनुवरः, भाषायाम् 'अणवर' इति । ६ भाषायाम् 'मायरु' इति प्रसिद्धम्।७ उपविष्टौ।८ यज्ञहविर्द्रव्यैः •पिष्पला० । ९ वेदिमध्ये।
828282828282828282828282828
त्रिपृष्ठवासु | देव-अचल|बलदेवादीनां | चरितम्।
॥३७॥