________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ३६ ॥
SAURKAKAEDERER
GREREREDEREI
मन्त्रिभिर्मन्त्रयमाणोऽप्युपलेभे न कञ्चन । अनुरूप वरं राजाऽपृच्छन्नैमित्तिकं ततः ॥ ४६३ ॥ नैमित्तिकेन सम्भिन्नश्रोतसाऽऽख्यायि यत् सुता । अनुरूपा त्रिपृष्ठाय प्राजापत्याय दीयताम् ॥ ४६४ ॥ प्रथमो वासुदेवोऽयं भोक्ष्यते चार्धभारतम् । श्रेणिद्वयाधिपत्यं * वः प्रसन्नश्च प्रदास्यति ॥ ४६५ ॥ एवं नैमित्तिकगिरा प्रीतो मां प्राहिणोत् प्रभुः । तामादातुं त्रिपृष्ठार्थे स्वामिंस्तदनुमन्यताम् ॥ ४६६ ॥ प्रीतः प्रजापतिनृपस्तथेति प्रतिपद्य ताम् । विससर्ज यथौचित्यदानपूर्वमखर्वधीः ॥ ४६७ ॥ अश्वग्रीवाशङ्कया च नृपो ज्वलनजट्यपि । तामुद्वाहयितुं कन्यां प्रजापतिपुरं ययौ ॥ ४६८ ॥ सविद्याधरसामन्तः सामात्य-बल-वाहनः । तस्थौ तन्नगरोपान्ते मर्यादायामिवार्णवः ॥ ४६९ ॥ सप्रधानपरीवारः प्रजापतिरथ स्वयम् । तस्याभिमुखमागच्छत् सर्वस्याभ्यागतो गुरुः । ॥ ४७० ॥ द्वयोरपि महासैन्ये मिलिते प्रीतियोगतः । चकासामासतुर्गङ्गा-यमुनाश्रोतसी इव ॥ ४७१ ॥ उभावपि गजारूढौ सामान्यप्रतिपत्तितः । अन्योऽन्यं परिरेभाते सामानिकसुराविव ॥ ४७२ ॥ तयोर्द्वयोः क्षितिभुजोः सूर्याचन्द्रमसोरिव । द्राक् सङ्गमेन दिवसः सपर्वदिवसोऽभवत् ॥ ४७३ ॥ आर्पयच्चावासभुवं विद्याधरमहीभुजे । मैनाकायेव पाथोधिः प्रजापतिमहीपतिः ॥ ४७४ ॥ तत्र विद्याधरा विद्याबलाद् व्यरचयन् पुरम् । विचित्रहर्म्यरूचिरं द्वितीयमिव पोतनम् ॥ ४७५ ॥ पुरस्य तस्य मूर्धन्ये प्रासादे दिव्यतोरणे । उवास ज्वलनजटी मेराविव दिवाकरः ॥ ४७६ ॥ सामन्ता-ऽमात्य-सेनानीप्रमुखा अपरेऽपि हि । ऊषुर्यथार्हं हर्म्येषु विमानेष्विव नाकिनः ॥ ४७७ ॥ ★ त्यं च प्रसन्नस्ते प्र० । १ महाबुद्धि: । २ महान् । ३ आलिङ्गितौ । ४ मैनाको नाम पर्वतः । ५ निवासं चक्रुः ।
CREDERERERERERERERERERERERES
चतुर्थं पर्व
प्रथमः सर्गः श्रेयांस
जिन
चरितम् ।
त्रिपृष्ठवासु
देव- अचलबलदेवादीनां चरितम् ।
॥ ३६ ॥