________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ३५ ॥
CAGAGAUDERERERERERERERERERE
अर्ककीर्तिकुमारस्य ज्योतिर्मालोचिता पुनः । कन्याविनिमयेनाऽस्तु द्वयोरपि महोत्सवः ॥ ४४८ ॥ श्रुतसागरनामाऽथ व्याजहारेति भूपतिम् । कन्येयं रत्नभूता ते केन श्रीरिव नार्थ्यते ? ॥ ४४९ ॥ विद्याधरकुमाराणां सर्वेषामेतदर्थिनाम् । निर्विशेषत्वजनको युज्यतेऽस्याः स्वयम्वरः ॥ ४५० ॥ कस्मैचिदन्यथैकस्मै ददतः कन्यकां तव । भावी विद्याधरैः सार्धं विरोधस्तेन किं मुधा ? ॥ ४५१ ॥ सर्वेषां मन्त्रिणां मन्त्रं श्रुत्वैवं तान् विसृज्य च । सम्भिन्नश्रोतसं नामाऽपृच्छन्नैमित्तिकं पुनः ॥ ४५२ ॥ अश्वग्रीवस्य वाऽन्यस्य विद्याधरवरस्य वा । निजकन्यां प्रयच्छामि यद्वाऽस्त्वस्याः स्वयम्वरः ? ॥ ४५३ ॥ स नैमित्तिक इत्यूचे साधुभ्योऽश्रौषमित्यहम् । यत्पृष्टो भरतेनाऽऽख्यद् भगवानृषभध्वजः ॥ ४५४ ॥ त्रयोविंशतिरर्हन्तोऽवसर्पिण्यां हि मत्समाः । एकादश भविष्यन्ति राजानस्त्वत्समाः पुनः ॥ ४५५ ॥ बला नव वासुदेवा नवार्धभरतेश्वराः । नव प्रत्यर्थिनस्तेषां तेऽप्यर्धभरतेश्वराः ॥ ४५६ ॥ तत्र हत्वा हयग्रीवं त्रिपृष्ठो भोक्ष्यते हरिः । सविद्याधरनगरां त्रिखण्डां भरतावनिम् ॥ ४५७ ॥ सर्वविद्याधरैश्वर्यं तुभ्यमेष प्रदास्यति । कन्येयं दीयतामस्मै पृथिव्यां नेदृशोऽपरः ॥ ४५८ ॥ हृष्टो नैमित्तिकं राजा सत्कृत्य विससर्ज तम् । दूतं तदर्थे मारीचि प्रैषीच्चोपप्रजापति ॥ ४५९ ॥ सोऽथ विद्याधरो गत्वा प्रजापतिमहीपतिम् । नत्वा स्वं ज्ञापयित्वा च विनयेनेत्यभाषत ॥ ४६० ॥ अस्ति ज्वलनजटिनो विद्याधरमहीपतेः । कन्या स्वयम्प्रभा नाम ललामाऽशेषयोषिताम् ॥ ४६१ ॥ अनुरूपवरार्थेऽस्याश्चिरं चिन्तापरायणः । अरोचकी कविरिव तस्थावग्निजटी नृपः ॥ ४६२ ॥ ★ माऽपि व्या । १ न याच्यते । २ वासुदेव: । ३ सर्वस्त्रीणां परमप्रकृष्टा । ४ रुचिरहितः । + तस्थौ वह्निजटी ।
FREDERERERERERERERERERERERY
चतुर्थं पर्व
प्रथमः सर्गः
श्रेयांस
जिन
चरितम् ।
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम् ।
॥ ३५ ॥