________________
त्रिषष्टिशलाकापुरुषचरिते ॥३८॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
28282828282828282828282828
प्रदक्षिणीचक्रतुस्तौ प्रदक्षिणशिखोद्गमम् । वेदिवह्नि वेदमन्त्राध्यापकेषु द्विजन्मसु ॥ ४९२ ॥ इत्थं स्वयम्प्रभां देवीं परिणीय बलानुजः । तया सहाऽऽरुह्य वशां प्रतस्थे स्वगृहं प्रति ॥ ४९३ ॥ उलूलध्वनिना तूर्यनादेन च महीयसा । उत्कर्णिताऽर्यमहरिर्जगाम स्वगृहं हरिः॥४९४ ॥ तदाऽज्ञासीद्धयग्रीवस्तद्वृत्तं चरचक्षुषा । अग्रेऽपि सिंहकथया क्रुद्धश्चक्रोध चाधिकम् ॥ ४९५ ॥ एवं च दध्यौ ज्वलनजटिना मयि सत्यपि । स्त्रीरत्नं दीयतेऽन्यस्मै रत्नं रत्नाकरे हि यत् ॥ ४९६ ॥ तस्या दातुरुपादातुस्तस्य चान्ते व्रजत्वसौ । तां कन्यां याचितुं दूतो दूतो हि प्रथमो नये ॥ ४९७ ॥ एवं विमृश्य मनसाऽनुशिष्य च रहः स्वयम् । व्यसृजन्नूतनं दूतं स पोतनपुरे पुरे ॥ ४९८ ॥ स दूतः सत्वरं गत्वा समीरणकुमारवत् । वेश्म ज्वलनजटिन : प्रविवेशेत्युवाच च ॥ ४९९ ॥ दक्षिणभरतक्ष्माघ लोकार्धमिव वज्रिणः । प्रशासितुर्हयग्रीवस्याऽऽज्ञया त्वां वदाम्यदः ॥५०० ॥ तव स्वयम्प्रभा नाम कन्यारत्नं गृहेऽस्ति भोः !। तां गत्वा स्वामिने देहि रत्नं नान्यस्य भारते ॥५०१॥ स्वामी वः सकुटुम्बानामश्वग्रीव : सुताऽपि तत् । तस्याऽस्तु दीयते हन्त ! किं शिरो नयने विना ? ॥५०२॥ अश्वग्रीवं पुराऽऽराद्धं पुत्र्यदानात् प्रकोपयन् । किं हारयसि फूत्कृत्य त्वमहो ! ध्यातकाञ्चनम् ? ॥५०३ ॥ इत्युक्तस्तेन दूतेनोवाच ज्वलनजट्यपि । दत्ता कन्या त्रिपृष्ठाय कन्यादानं सकृत् खलु ॥५०४ ॥ अन्यस्यापि प्रदत्तस्य वस्तुनः स्वामिता न हि । किं पुनः कुलकन्याया विचारयतु स स्वयम् ॥५०५॥
१ हस्तिनीम् । २ उलूलुः- मङ्गलध्वनिः । ३ उर्ध्वकर्णाः अर्यम्णः-सूर्यस्य हरयः- अश्वा: येन सः, एतद् हरेः विशेषणम् । ४ वायुकुमारवत् । ५ भाषायाम्- 'फूंक मारीने'।६ अग्नितापितसुवर्णम् ।
282828282828282828282828284
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥३८॥