________________
| चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३९॥
प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
YAYAYAYAYRYNYRYYYYYYY
इत्युक्त : सोऽग्निजटिना दूतोऽन्तःकलुषः खलु। उपत्रिपृष्टमगमन्निसृष्टार्थो हि स प्रभो : ॥ ५०६ ॥ त्रिपृष्ठं चेत्यभाषिष्ट समादिशति मद्गिरा ।क्ष्मामण्डलाऽऽखण्डलस्त्वामश्वग्रीवो जगज्जयी ॥५०७॥ अस्मदर्हा कन्यकेयमज्ञानादाददे त्वया । विमुग्धपथिकेनेव राजोद्यानतरोः फलम् ॥५०८ ॥ ईशोऽहं वः सबन्धूनां रक्षिताः स्थ चिरं मया । तत् कन्यां मुञ्च भृत्यानां प्रमाणं स्वामिशासनम् ॥५०९॥ विक्टभ्रकुटीभङ्गभीमभालस्थलस्ततः । रक्तेक्षण-कपोलश्रीस्त्रिपृष्ठः प्रत्युवाच तम् ॥५१०॥ स एवं जगति न्याय प्रवर्तयति ते प्रभुः । अग्रेगरिव लोकानामहो ! तस्य कुलीनता ॥५११ ॥ तेन स्वविषये मन्ये विध्वस्ता : कुलयोषितः । मार्जारयनः पुरतः किं दुग्धमवशिष्यते ? ॥५१२॥ अस्मासु स्वामिता तस्य कुतो हन्ताऽमुना पथा ? । अन्यत्रापि स्वामिताऽस्य गैत्वर्येवाचिरादपि ॥५१३ ॥ स शालिभोजनस्येव तृप्तवान् जीवितस्य चेत् । स्वयम्प्रभामुपादातुं तदत्राऽऽगच्छतु स्वयम् ॥५१४ ॥ दुतत्वेन न वध्योऽसि गच्छ मा तिष्ठ सम्प्रति । तमेव हि हनिष्यामो हयग्रीवमिहाऽऽगतम् ॥५१५ ॥ इत्युक्तो विष्णुना दूतः प्रतोदेनेव ताडितः । गत्वा शीघ्रं सर्वमाख्यदश्वग्रीवाय भूभुजे ॥५१६ ॥ तदाकर्ण्य हयग्रीवो लोहितायितलोचन : । प्रस्फुरइंष्ट्रिकाकेशो दशनैरधरं दशन् ॥५१७ ॥ वेपमानवपीमभ्रकटीविकटालिकः । विद्याधरवरानेवं सावज्ञा-कोपमादिशत् ॥५१८ ॥॥ युग्मम् ॥
१ त्रिपृष्ठसमीपम् । २ उभयपक्षयोः अभिप्रायं संबुध्य स्वप्रतिभया प्रतिवक्ति संदिष्टः संश्च कार्याणि करोति सः निसृष्टार्थः। ३ 'यूयम्' इति शेषः । ४ अग्रेगूः - अग्रणीः । ५ गमनशीला-नाशशीला। ६ भाषायाम् 'परोणो' नामकं वृषभादिताडनसाधनम् । ७ भाषायाम् 'दाढीना केशो'८ अलिकम् - कपालम्।
188888888888888888888888888
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥३९॥