________________
त्रिषष्टिशलाकापुरुषचरिते ॥४०॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांसजिनचरितम्।
1282828282828282828282828288
अहो ! दैवेन दुर्बुद्धिर्दत्ताऽऽग्निजटिनः खलु । कृकलास इवाऽर्कस्य यः स्यादभिमुखो मम ॥५१९ ॥ आभिजात्यमहो ! तस्य कीदृशं ? यो विहाय माम् । स्वसुतापतिपुत्रेणाऽऽत्मकन्यां पर्यणाययत् ॥५२० ॥ मूर्यो मुमूर्षुरकः स तावज्ज्वलनजट्यहो ! । प्रजापतिद्वितीयोऽन्यः सापत्नभगिनीसुतः ॥५२१॥ अपरश्च पितुः शालः स्वज्ञातेयेन निस्त्रपाः । मां प्रत्यारम्भमिच्छन्ति शृगाला इव जागरम् ॥५२२॥ युग्मम् ॥ विद्रावयत तान् गत्वा पवनास्तोयदानिव । शार्दूला इव हरिणान् हरयः कुञ्जरानिव ॥५२३॥ अथ विद्याधराः सर्वे रणकण्डूलबाहव: । तया स्वाम्याज्ञयाऽहृष्यंस्तृषिता इव वारिणा ॥५२४॥ पृथक् पृथग् युत्प्रतिज्ञां कुर्वाणा भुजशालिनः । स्फोटयन्त इव दिवं भुजास्फोटोद्भवै रवैः ॥५२५ ॥ उक्त्वा मित्रेष्विवाऽमित्रेष्वपि सङ्ग्रामकौतुकात् । मम प्राग् मा परो जैषीदित्यन्योऽन्यमतित्वराः ॥५२६ ॥ कशाभिस्ताडयन्तोऽश्वान् प्रेरयन्तो यतैर्गजान् । प्राजन्तः प्राजनैधुर्यान् निनन्तो यष्टिभिर्मयान् ॥५२७ ॥ नर्तयन्तो निशातासीन् स्फारयन्तः स्फुरान् मुहुः । सज्जायन्तश्च तूणीरान् वादयन्तो धनुर्गुणान् ॥ ५२८ ॥ भ्रामयन्तो मुद्रांश्च चालयन्तो महागदाः । स्फाटयन्तस्त्रिशल्यांश्च दधानाः परिघानपि ॥५२९ ॥ केऽपि खेन समापेतुर्भुवा केऽपि च कौतुकात् । प्रापुश्च पोतनपुरमश्वग्रीवस्य ते भटाः ॥५३० ॥
॥षड्भिः कुलकम्॥ १ कृकलासः- 'काकीडो' इति भाषायाम् ।२ प्रत्यारम्भ:- संग्रामः । ३ जागर:-सिंहः । ४ सिंहाः ।५ कण्डूलम्-'खंज-वाळवाळु'-'चळवाळु' इति भाषायाम्। ६ युद्धप्रतिज्ञाम् । ७ यता:- अङ्कशाः। ८ प्राजना:- 'परोणा' इति भाषायाम्। ९ बलीवन्।ि १० उष्ट्रान्। ११ स्फुराः 'ढाल' इति भाषायाम् ।★ स्त्रिशल्लीश्च ।
1282828282828282828282828282
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥४०॥