________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
88888888882828282828282828
उच्चपेटः प्रति सर्प मण्डूक इव दुर्मतिः । धृष्टतायाः फलमसौ प्राप्नोत्विति विमृश्य सः ॥ ३९३ ॥
खे खेचररथस्त्रस्तकेसरिभ्रमदः क्षणम् । तत उत्पुच्छयमानो ददौ फालां स केसरी ॥३९४ ॥ तस्य चापततोऽप्योष्ठौ पाणिभ्यां स पृथक् पृथक् । संदंशाभ्यां दन्दशूकस्येव जग्राह केशव : ॥३९५ ॥ एकेनौष्ठेन चाकर्षन्नेकतोऽन्येन चान्यतः । चटच्चटिति तं विष्णुः पटपाटमपाटयत् ॥३९६ ॥ अत्रान्तरे जनैः सभ्यैरिव वैतालिकैरिव । रोदःकुक्षिम्भरिभूरिश्चक्रे जयजयारव : ॥३९७ ॥ कौतुकान्मिलिता व्योम्नि विद्याधर-सुरा-ऽसुराः । मलयानिलवत् तत्र पुष्पवृष्टिं वितेनिरे ॥३९८ ॥ ते च सिंहशरीरस्य दले क्षिप्ते क्षणात् क्षितौ । परिपुस्फुरतुः कामममर्षामुक्तचेतने ॥ ३९९ ॥ महता सोऽपमानेन परतन्त्रशरीरकः । द्विधाभूतोऽपि हि हरिः स्फुरन्नेवमचिन्तयत् ॥ ४०० ॥ अहो ! प्रौद्वैरपि नृपः सन्नद्धसुभटावृतै : । सास्त्रैरपि न सोढोऽस्मि योऽहं पविरिवापतन् ॥ ४०१ ॥ बालेनैकाकिनाऽनस्त्रेणामुना मृदुपाणिना । हा ! हतोऽस्मीति खेदो मे न पुनर्वधमात्रत :॥ ४०२ ॥ एवं च चिन्तया तस्य वेल्लतो दन्दशूकवत् । ज्ञात्वाऽभिप्रायमित्यूचे मधुरं विष्णुसारथिः॥४०३ ॥ लीलानिर्भिन्नमत्तेभाऽपराभूत ! चमूशतैः । मृगराज ! किमेवं त्वमभिमानेन ताम्यसि ? ॥ ४०४॥ अयं खलु भटप्रष्ठस्त्रिपृष्ठो नाम भारते । प्रथम शाहिणां बालो वयसा न तु तेजसा ॥ ४०५ ॥
१ प्रसारितपाणिः । अत्र 'पाणि' शब्देन 'चपेटा-पंजो' इति भाषायाम् । २ पुच्छं ऊर्ध्वं वर्तुलाकारेण प्रसारयन् । ३ भाषायाम्- 'संदंश' इति 'सांडसो' इति नाम्ना प्रसिद्धं सर्पग्रहणसाधनम् । ४ वस्त्रच्छेदवत् । ५ आकाशभूम्यन्तरालपूरकः । ६ खण्डद्वयम् । ७ कम्पमानस्य। ८ प्रष्ठः- अग्रणीः । ९ शाी-वासुदेवः ।
******XXXXXXXXXXXXXXXXXX
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥३१॥