________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
8282828282828282828282828282
नरेषु सिंहः खल्वेष पशुषु त्वं तु तत् तव । हतस्यानेन का व्रीडा ? श्लाघा प्रत्युत तद्रणे ॥ ४०६ ॥ तस्येति वचसा शान्तः सुधावृष्ट्येव केसरी । मृत्वा बद्धायुरुत्पेदे नारको नरकावनौ ॥ ४०७॥ हयग्रीवाज्ञया तत्र तद्वृत्तं ज्ञातुमेयुषाम् । विद्याधराणां तच्चर्मार्पयन्नूचेऽचलानुजः ॥ ४०८ ॥ तस्य घोटककण्ठस्य चकितस्य पशोरपि । अस्य सिंहस्य चर्मेदमर्म्यतां वधसूचकम् ॥ ४०९॥ वाच्यश्च वाचिकमिदं स्वादुभोजनलम्पटः । निश्चिन्तो भव विश्रब्धं भुञ्जीथाः शालिभोजनम् ॥४१०॥ तथेति प्रत्यपद्यन्त ते विद्याधरदारकोः । बलभद्र-त्रिपृष्ठौ तु जग्मतुर्नगरं निजम् ॥ ४११ ॥ प्रणेमतुः पितुः पादौ तत्र तौ भ्रातरावुभौ । बलस्तु कथयामास तमुदन्तमशेषतः ॥ ४१२ ॥ पुनर्जाताविव सुतौ मेने राजा प्रजापतिः । तेन सूनृतसन्धेन सूनुना चात्यमोदत ॥ ४१३ ॥ ते च विद्याधरा वाजिग्रीवस्य तमशेषतः । त्रिपृष्टोदन्तमाचख्युर्वज्रपातसहोदरम् ॥ ४१४ ॥ इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणम् । नगरं रथनूपुरचक्रवालाऽऽख्यमस्ति तत् ॥ ४१५ ॥ तत्र च ज्वलनजटी तेजसा ज्वलनोपमः ॥ आसीदसामान्यऋद्धिर्विद्याधरनरेश्वरः ॥ ४१६ ॥ बभूव तस्य महिषी प्रीतेः परममास्पदम् । नाम्नैव वायुवेगेति हंसीव त्वलसा गतौ ॥ ४१७ ॥ तस्यां राज्यां तस्य राज्ञ : सूनुः समुदपद्यत । स्वप्नेऽ लोकनादर्ककीर्तिरित्यभिधानतः ॥ ४१८ ॥ स्वप्ने स्वयम्प्रभाधौताऽऽशेन्दुलेखाविलोकनात् । स्वयम्प्रभेत्यभिधया क्रमेण तनयाऽप्यभूत् ॥ ४१९ ॥
१ 'घोटककण्ठ' इति हयग्रीवस्य पर्यायवाचकं नाम । * 'काः । त्रिपृष्ठ-बलभद्रौ तु । २ उदन्त:- वृत्तान्तः । ३ संध-प्रतिज्ञा। ४ सहोदरम्तुल्यम् । . "सीवत् त्व' ।५ सहजप्रभया धौता आशा दिशो येनैतादृश इन्दुः चंद्रस्तस्य लेखा तस्या विलोकनात् ०
828282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।