________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांस
जिन
चरितम्।
1928282828282828282828282828
यमौकस्तोरणमिव मुखस्योपरि दंष्ट्रिकाम् । अन्तर्व्वलन्महाकोपानलस्येव शिखा: सटाः ॥३८१॥ नखांश्च प्राणिनां प्राणाकर्षणाङ्कटकानिव । लुलन्तं पुच्छदण्डं च बुभुक्षितमिवोरगम् ॥ ३८२ ॥ बिभ्रद् व्यात्ताननः पञ्चाननो बूत्कारदारुणः । साक्षादिव रसो रौद्रो निर्जगाम गुहागृहात् ॥३८३ ॥
॥पञ्चभिः कुलकम् ॥ अतुच्छपच्छदण्डेन प्रचण्डेन स केसरी । भूतलं ताडयामास वजेणेन्द्र इवाचलम् ॥ ३८४ ॥ पुच्छाच्छोटननादेन तेन नेशुः समन्ततः । सत्त्वानि तूर्यनादेन यादांसीवान्तरम्बुधेः॥३८५ ॥ आर्य ! तिष्ठ मयि सति योद्धं तेऽवसरो न हि । इति त्रिपृष्ठस्तत्रैवाऽवातिष्ठिपदथाऽचलम् ॥ ३८६ ॥ पदातिना रथस्थस्य युध्यमानस्य मेऽमुना । क्षत्रधर्मोचितं नैतदिति विष्णुर्जहौ रथम् ॥ ३८७ ॥ अस्त्रिणो मे निरस्त्रेण युद्धमित्यपि नोचितम् । इत्यस्त्राण्यपि तत्याज वीरव्रतधनो हरिः ॥३८८॥ एह्येहि भो ! समित्कण्डूं हरे ! तव हराम्यहम् । इति त्रिपृष्ठोऽभाषिष्ट स्थामतोऽतिपुरन्दरः ॥ ३८९ ॥ तदेव वचनं सोऽपि कोपाटोपसमुत्कटः । अप्रितिरवव्याजाद् व्याजहारेव केसरी ॥ ३९० ॥ : स केसरि युवा चेत्थं चिन्तयामास चेतसि । अहो ! अमुष्य बालस्य भृशं रभसकारिता ॥३९१ ॥ विना सैन्यं यदायातः स्यन्दनाद् यदवातरत् । यच्च तत्याज शस्त्राणि यन्मामाह्वास्त चोच्चकैः ॥ ३९२ ॥
१ यमगृहतोरणम् । २ 'सटा:'-भाषायाम् 'सिंहकेशवाळी-याळ' इति । ३ 'अंकुटक' इति भाषायाम् 'अंकोडो' नामकम् आकर्षणसाधनम् । ४ पूर्वोक्तानि नेत्रादि-पुच्छान्तानि बिभ्रत्-धारयन् । ५ गर्जनाभयङ्करः । ६ यादांसि-हिंस्राणि जलचराणि । अन्तर्-मध्ये, अम्बुधेः समुद्रस्य । ७ युद्धरूपां कण्डूम्।८ अद्रिप्रतिध्वनिमिषेण ।
28282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥३०॥