________________
त्रिषष्टिशलाकापुरुषचरिते ॥२९॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
282828282828282828282828282
आचरव्युः क्षेत्रिणोऽप्येवं हे वीराविह भूभुजः । सन्नद्धः कुञ्जरवरैस्तुरङ्गैः स्यन्दनैर्भटैः ॥ ३६८ ॥ विरचय्य महाव्यूहं सिंहस्याकार्षरन्तरे । संवरं श्रोतस इव दीर्घिकामिव दन्तिनः ॥ ३६९ ॥ हन्यमानैर्दीर्यमाणैः सैनिकैस्तैर्महाभुजः । सिंहादस्माद् ररक्षुर्नः प्राप्तजीवितसंशया ॥३७०॥
॥त्रिभिर्विशेषकम्॥ इति तेषां वचः श्रुत्वा स्मित्वा चाऽचल-केशवौ । सैन्यं निधाय तत्रैवाऽयातां सिंहगृहामभि ॥ ३७१ ॥ तयोश्च रथनिर्घोषान्मेघनिर्घोषसोदरात् । बन्दिघोषादिव नृपः सिंहः सद्यो व्यबुद्ध सः ॥ ३७२ ॥ किञ्चिदुन्मीलयन् नेत्रे कृतान्तस्येव दीपिके । तस्येव चामरं धुन्वन्नुदारां केसरच्छटाम् ॥३७३ ॥ रसातलद्वारमिव जृम्भया स्फाटयन् मुखम् । किञ्चिदाकुञ्चितग्रीवः प्रेक्षाञ्चक्रे स केसरी ॥३७४ ॥युग्मम् ॥ रथमात्रपरीवारौ तौ नरौ वीक्ष्य केवलौ । अवज्ञया प्रसुष्वाप सोऽथ कृत्रिमनिद्रया ॥३७५ ॥ सर्वाभिसारिभिर्भूपैर्दत्त्वा हस्त्यादिभिर्बलिम् । शालिक्षेत्राणि रक्षद्भिर्गर्वमारोपितो ह्यसौ ॥ ३७६ ॥ आमेत्युक्तोऽचलेनाथ पुरोऽभ्येत्य च किञ्चन । मल्लो मल्लमिवाऽऽह्वास्त नृसिंहः सिंहपुङ्गवम् ॥३७७ ॥ विष्णोस्तमूर्जितं शब्दमाकर्योत्कर्णिताऽऽननः । विसिष्मिये सोऽपि सिंहो वीरः कोऽपीति चिन्तयन् ॥३७८ ॥ कर्णी शिरसि सुस्तब्धौ स्थलस्थाविव कीलकौ । अतीव पिङ्गले नेत्रे दीप्ते इव बिभीषिके ॥ ३७९ ॥ | अस्त्रागारं यमस्येव वक्त्रं दंष्ट्रारदाकुलम् । वक्राद् बहिः स्थितां जिह्वां पातालादिव तक्षकम् ॥ ३८० ॥
* ०त्वा च बलके। १ अभि-संमुखम् । २ त्रिपृष्ठः । ३ उत्कर्णितम्-ऊर्ध्वकर्णम् । आननम्-मुखम् । . "पिङ्गे नयने दी । ४ दंष्ट्रा-दाढा। रदाः दन्ता : । आकुलम् - व्याप्तम्-परिपूर्णम् ।
1282828282828282828282828286
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥२९॥