________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिन
॥२८॥
चरितम् ।
282828282828282828282828284
विमृश्यैवं तदा दूतान्तरेणाथ प्रजापतिम् । त्रायस्व शालिक्षेत्राणि सिंहादिति समादिशत् ॥ ३५४ ॥ प्रजापतिः समाहूय कुमारावित्यभाषत । फलितं वां दुर्ललितमकाण्डे सिंहरक्षया ॥३५५ ॥ आज्ञा चेत् खण्ड्यतेऽकाण्डे हयग्रीवोऽन्तकायते । तदाज्ञा खण्ड्यते नो चेत् तदा सिंहोऽन्तकायते ॥ ३५६ ॥ असावुभयथाऽस्माकमपमृत्युरुपस्थितः । तथापि सिंहरक्षार्थं वत्सौ ! गच्छामि सम्प्रति ॥ ३५७॥ कुमारावूचतुतिमश्वग्रीवस्य पौरुषम् । ज्ञातो भयङ्कर इति स येन पशुना पशुः ॥ ३५८ ॥ तिष्ठ तात ! व्रजिष्यावो हनिष्यावोऽचिरेण तम्। सिंह नृसिंह ! का तत्र स्वयं यात्रा तव प्रभो ! ॥ ३५९ ॥ सविषादं जगादैवं प्रजापतिनृपोऽप्यथ । क्षीरकण्ठावनभिज्ञौ कृत्या-ऽकृत्येषु कर्मसु ॥ ३६० ॥ एकं तावद् कृतं कर्म तिष्ठद्भ्यां गोचरेऽपि मे । व्यालेभदुर्ललिताभ्यां भो ! भवद्भ्यां कुमारको ॥ ३६१॥ तस्यापि कर्मणः सद्यः फलमेतदुपस्थितम् । दूरस्थौ यत् करिष्येथे तत्फलं किं भविष्यति ? ॥ ३६२ ॥ अथ त्रिपृष्ठः प्रत्यूचे केयं सिंहबिभीषिका । दर्श्यते तेन बालेन बालानामिव भूभुजाम् ? ॥३६३॥ कृत्वा तात ! प्रसादं नौ तिष्ठत्वत्रैव सम्प्रति । गत्वा सिंहं हनिष्यावः सहाऽश्वग्रीववाञ्छितैः ॥ ३६४॥ इत्थं कथमपि क्षमापं तौ प्रतीक्ष्य प्रजग्मतुः । सारस्वल्पपरीवारौ तां सिंहाध्युषितां भुवम् ॥ ३६५ ॥ सिंहेन निहतानेकभटास्थीनि गिरेरधः । कुमारौ तद्यशोराशिमिव मूर्तमपश्यताम् ॥३६६ ॥ तुङ्गवृक्षाधिरूढांस्तौ शालिक्षेत्रकृषीवलान् । पप्रच्छतुरिति क्षमापैः सिंहोऽयं रक्षितः कथम् ? ॥३६७॥
१ दुश्चेष्टितम् । २ अन्तकः - यमः तत्सदृशः । आज्ञाखण्डने हयग्रीवः यमसदृशः । आज्ञापालने कृते सिंहः यमसदृशः । ३ क्षीरकण्ठः बालः । ४ व्यालेभ:- उन्मत्तगजः । ५ सिंहभयम् । ६ आवाभ्याम्-आवयोरुपरि ।
1282828282828282828282828282
त्रिपृष्ठवासु देव-अचल| बलदेवादीनां
चरितम् ।
॥२८॥